SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः ६५९ अथ सावद्ययोगकारिणमात्मानं व्युत्सृजामि परित्यजामि द्रव्यभावव्युत्सर्गदृष्टान्तमाह दव्वविउस्सग्गे खलु, पसन्नचंदो भवे उदाहरणं । पडियागयसंवेगो, भावंमी होइ सो चेव ।। १०५१ । । द्रव्यव्युत्सर्गः - गणोपधिशरीराऽन्नपानादित्यागः । आर्तध्यानादिध्यायिनो वाक्कायोत्सर्गः । तत्र प्रसन्नचन्द्र उदाहरणम् । प्रत्यागतसंवेगः स एव भावोत्सर्गेऽपि ।। १०५१ ।। कथा चेयं - क्षितिप्रतिष्ठितपुरं, जगचित्तप्रतिष्ठितम् । प्रसन्नचन्द्रस्तत्राऽऽसीत्पृथिवीपाकशासनः । १ । श्रीवीरः समवासार्षीत्, तत्र नन्तुमगानृपः । श्रुत्वा धर्मं प्रबुद्धः, सन् सुतं राज्ये न्यवेशयत् । २ । प्रव्रज्यादाय शिक्षे द्वे, स गीतार्थोऽभवन्मुनिः । अन्यदा जिनकल्पं स, प्रतिपित्सुर्महामुनिः | ३ | सप्तभिर्भावनाभिः स्वं भावयन् धर्मतत्त्ववित् । राजगृहस्मशाने स, कायोत्सर्गेण तस्थिवान् ॥४॥ तदा तमोरिपुर्वीरस्तत्रापि समवासरत् । वन्दारुर्निर्ययौ लोकः, कोकवत्प्रीतमानसः । ५ । क्षितिप्रतिष्ठितात्तत्राऽऽयातौ द्वौ च वणिग्वरी । प्रसन्नचन्द्रराजर्षि, दृष्ट्वा मार्गसमीपम् ॥६॥ एकोऽभाषिष्ट दृष्टः सन् धन्यात्माप्रभुरेष नः । राज्यलक्ष्मीं परित्यज्य, स्वीचकार तपः श्रियम् ॥७। द्वितीयः स्माह धन्यत्वं, कुतोऽमुष्य महाऋषेः । योऽसञ्जातबलं पुत्रं कृत्वा राज्येऽग्रहीतम् ॥८॥ - १ 'केकि' ल कोकः चक्रवाकः । स प्रव्रज्य द्वे शिक्षे आदाय इत्यन्वयः । तमोरिपुः तमसः रिपुः सूर्यः, वीरपक्षे तमसः अज्ञानस्य अरिः केवलीत्वात् । ************* ******** आ.नि.सा.नि. सूत्रस्पर्शक निर्युक्तिः भावव्युत्सर्गे दृष्टान्तः प्रसन्नचन्द्र राजर्षिः । गाथा - १०५१ ६५९ [१५५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy