________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
'तदुपयुक्तः' तत्राऽधिकृतशुभव्यापारोपयुक्तो यत्करोति तद्भावमिथ्यादुःष्कृतम् । तत्र मृगावती उदाहरणम् । तच्चेदं - एकदा भगवान् वीरः, कौशाम्बीं समवासरत् । सूर्येन्दू स्वविमानेन, प्रभुं वन्दितुमीयतुः ।। साध्वी मृगावती तत्र, रात्रावपि चिरं स्थिता । अजानन्ती निशां शेषाः, साध्व्यस्तु ययुराश्रयम् ।२। गताभ्यां पुष्पदन्ताभ्यां, झगित्येवाभवनिशा । मृगावत्यथ सम्भ्रान्ता, गताऽऽर्यचन्दनान्तिके ।३। ताभिरावश्यकं चक्रे, तदारेभे मृगावती । आलोचयन्तीं तामूचे, चन्दना चन्दनोपमा ।।। शिशिरैर्मधुरैर्वाक्यैः, किं साध्वि ! सुचिरं स्थिता । तव हैहयवंश्यायाः, प्रमादोऽयमभूत्कथम् ।५। ततो मृगावती मिथ्यादुःकृष्कृितं ददती मुहुः । चन्दनाया ननामांही, संवेगभरभारिता ।६। तदाऽऽर्यचन्दनामिश्रा, आसन् संस्तारकाश्रिताः । तदानीमागमन्निद्रा, विद्राणव्यक्तचेतना ।७। मृगावत्यास्तथास्थायाः, शुक्लध्यानमजायत । ततः केवलमुत्पत्रं, प्रक्षीणाशेषपाप्मनः ।८।। सा सर्पमभिसर्पन्तं, चन्दनास्त्रस्तरान्तिके । लम्बमानं बहिः पाणिं, स्वामिन्या न्यास संस्तरे ।९। हस्तचालनतो बुद्धा, चन्दना वदति स्म ताम् । अद्याऽपि त्वं तथैवासि, प्रमादं क्षाम्य साध्वि ! मे ।१०। यत्प्रचाल्य करं भद्रे !, बोधिता तद्वरं कृतम् । एवं स्थितायास्ते रात्रिर्यायादेषाऽन्यथा कथम् ।११। • मित्राः - आदरवाची मिश्रः शब्दः तस्य स्त्रीलिङ्गे बहुवचनम् ।
आ.नि.सा.नि. सूत्रस्पर्शक नियुक्तिः
भावतो मिथ्यादुष्कृते
दृष्टान्तः मृगावती। गाथा-१०४८
६५७
६५७ [१५३]