SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६५२ यत्किञ्चिदत्र लोकेऽस्ति तत् सर्वं जीवाजीवरूपमेव । द्रव्यसर्वादस्य को विशेषः ? उच्यते, द्रव्यसर्वेण घटादय एव गृह्यन्ते, सर्वधत्तासर्वस्य आ.नि.सा.नि. च कृत्स्ना त्रिलोकी । भावसर्वमाह - * सूत्रस्पर्शक भा. भावे सव्वोदइओ, उदयलक्खणो जहे स तह सेसा । इत्थ उ खओवसमिए, अहिगारोऽसेससव्वे य ।।१८९ ।। * 'भावे' भावसर्वद्वारे 'सर्वोदयिकः' शुभाशुभरूपः उदयलक्षणः, सर्वेषां कर्मणाम् । यथैष तथा शेषा अपि व्युत्पाद्याः । अत्र तु क्षायोपशमिकभावसर्वेणाधिकार उपयोगः, निरवशेषसर्वेण च ।। १०३७ ।। अथाऽवद्यव्याख्यामाह - कम्ममवज्जं जं गर, हियंति कोहाइणो व चत्तारि । सह एहिं जो उ, जोगो पञ्चक्खाणं हवइ तस्स ।। १०३८ ।। स्पष्टा ।। १०३८ ।। अथ योगमाह - ******* दवे मणवइका, जुग्गा दव्वा दुहा उ भावंमि । जोगो समत्ताई पसत्थु इयरो य विवरीओ ।। १०३९ ।। 'द्रव्ये' द्रव्यद्वारे, मनोवाक्काययोग्यानि पुद्गलद्रव्याणि द्रव्ययोगः । द्विधा तु 'भावे' भावयोगः । तत्र सम्यक्त्वादिर्भावः प्रशस्तः, इतरो * मिथ्यात्वादिर्विपरीतोऽप्रशस्तः, कर्मबन्धे हेतुः । प्रत्याख्यामीत्यस्यार्थमाह- नामं ठवणा दविए, खित्त अइच्छा य भावओ तं च । * नामाभिहाणसुत्तं, ठवणागारक्खनिक्खेवो ॥१ ॥ प्रत्याख्यानमिति नामाभिधानं यस्य सूत्रस्य तन्नामप्रत्याख्यानम् । तस्यैवाकारन्यासः अक्षेषु निक्षेपः स्थापनाप्रत्याख्यानम् ।। १०३९ ।। द्रव्यादीन्याह - • इयं गाथा श्रीहरिभद्रसूरिभिरत्र न मता । अस्याः मूलस्थानं तु प्रत्याख्यननिर्युक्तौ ततः न आवश्यकनिर्युक्तिगाथात्वेन क्रमितास्ति । निर्युक्तिः सर्वद्वारम् । * अवद्यद्वारम् । * योगद्वारम् । * गाथा १०३८ १०३९ भा. गाथा. १८९ ६५२ [१४८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy