SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६५० ************** ************ 米樂 आया हु कारओ मे, सामाईयं कम्म करणमाया य । परिणामे सइ आया, सामाइयमेव उपसिद्धी ।। १०३५ ।। आत्मैव कारकस्तस्य स्वातन्त्र्येण प्रवृत्तेः । सामायिकं कर्म । तदप्यात्मैव तद्गुणत्वात् । करणं उद्देशादिरूपम्, तदप्यात्मैव तत्क्रियात्वात् । तथा च यथोक्तदोषाऽसम्भवः । कुतः ? परिणामे सति आत्मा सामायिकम् । परिणमनं परिणामः, कथञ्चित्पूर्वरूपापरित्यागेनोत्तररूपापत्तिः । उक्तं च नाऽर्थान्तरगमो यस्मात्सर्वथैव न चाऽऽगमः । परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः । अयमत्र भावार्थः न खल्वात्मनः सामायिकाद्यैरेकान्तेनाऽन्यत्वमनन्यत्वं वा । द्रव्यस्य गुणपर्यायाभ्यां भेदाभेदाऽभ्युपगमात् । ।१०३५ ।। अमुमर्थं युक्तया दृढयन्नाह एगत्ते जह मुट्ठि, करेइ अत्यंतरे घडाईणि । दव्वत्थंतरभावे, गुणस्स किं केण संबद्धं । ।१०३६ । । - आ.नि.सा.नि. सूत्रस्पर्शकनिर्युक्तिः * सर्वद्वारम् । गाथा - १०३५१०३६ यथा देवदत्तः प्रयत्नेन मुष्टिं करोति । 'एकत्वेऽपि' एकस्याऽपि देवदत्तस्य विवक्षया कर्तृकर्मकरणभावः । एवमत्राऽपि परिणामविशेषेण आत्मनोऽपि कर्तृकर्मकरणभावोऽविरुद्धः । 'अर्थान्तरे' भेदे सति घटादीन्यविरोधेन कर्तृकर्मकरणभावं भजन्त्येव । द्रव्याद्गुणिनो अर्थान्तरत्वे गुणस्य किं केन संबद्धम्, न किञ्चित्केनचित् संबद्धमित्यर्थः । ज्ञानादीनामपि गुणत्वादात्मनो भेदे पदार्थसंवेदनं न स्यात् । द्रव्यगुणपर्यायाणामेकान्ताऽभेदेऽपि गुणान्तराऽऽधानं पर्यायान्तरं न स्यात् । ।१०३६ ।। अथ सर्वशब्दप्ररूपणायाह - १. संबद्धम्, किञ्चित्केनचित् प.प.प.ल.ल. । ६५० [१४६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy