SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आवश्यक आओवमाए पर-दुक्खमकरणं रागदोसमज्झत्थं । नाणाइतियं तस्सा-यपोयणं भावसामाई ।।१०३२।। * 'आत्मोपमया परदुःखाकरणं' भावसाम, 'रागद्वेषमाध्यस्थ्यं' द्वयोरप्यकरणेन मध्यवर्तित्वं समं सर्वत्राऽऽत्मतुल्यं वर्त्तनम्, ज्ञानादित्रयं श्रातिलकाचाय- ज्ञानदर्शनचारित्रयोजनं सम्यगेव मोक्षसाधकत्वात् । तस्य सामसमसम्यक् इत्येतस्य आत्मनि 'प्रोतनं' प्रवेशनं इकमुच्यते । 'भावसामाई लघुवृत्तिः * भावसामादावेतान्युदाहरणानि । साम्नः समस्य सम्यको वा इकं निरुक्तया सामायिकम् ।।१०३२।। सामायिकपर्यायानाह - समया समत्त पसत्थ, संति सिर्वहियसुहं अणिदं च । अदुगंच्छियमगरहियं, अणवजमिमेवि एगट्ठा ।।१०३३।। स्पष्टा । नवरं इमेप्येकार्थाः । न केवलं सामाइयं समइयं इत्यादयः प्रागुक्ता एवैकार्थाः ।।१०३३।। चालनामाह - ६४९ को कारओ करितो, किं कम्मं जं तु कीरई तेण । किं कारयकरणाण य, अन्नमणन्नं च अक्खेवो ।।१०३४।। कः कारकः ? कुर्वन्, किं कर्म ? यत्क्रियते, तेन का । तद्गुणरूपं सामायिकमेव । किं करणं उद्देशसमुद्देशानुज्ञानुयोगरूपम्, एवं * * स्थिते सत्याह - किं कारककरणयोः चशब्दात्कर्मणश्च परस्परमन्यत्वमनन्यत्वं वा ? अन्यत्वे सामायिकवतोऽपि तत्फलमोक्षाभावः, * सामायिकादात्मनोऽन्यत्वात् । अनन्यत्वे तु सामायिकोत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशौ स्याताम् । अनिष्टं चैतत् तस्यानादित्वात् * * ॥१०३४।। प्रत्यवस्थानमाह - १. 'सिवसुह' ल ख प, 'सविसुहं'-ल, । आ.नि.सा.नि. सूत्रस्पर्शकनियुक्तिः सामायिक द्वारम् । गाथा-१०३२ १०३४ ६४९ [१४५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy