SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६४६ * द्रव्यगुणपर्यायैर्बोद्धव्यः । उद्दिशतेति शिष्योक्ते । आचार्यः सूत्रतोऽर्थतो द्रव्यगुणपर्यायैरनन्तगमसहितैरित्याह । द्रव्याणि चतुर्दशरज्ज्वात्मक लोकमध्यगानि, गुणाः शुक्लादयः, पर्यायाः नवपुराणादयः, एकगुणकालकादयो वा तैः कृत्वा गुरुरुद्दिशामीत्यभिव्याहरति । एवं अभिव्याहारद्वारमष्टमं गतम् । व्याख्याता प्रतिद्वारगाथा । संप्रति क्रमप्राप्तं कतिविधमिति द्वारमाह - ***** भा. उद्देससमुद्देसे, वायणमणुजाणणं च आयरिए । सीसंमि उद्दिसिज्जं तमाइ एयं तु जं कइहा ।। १८३ ।। उद्देशसमुद्देशवाचनानुज्ञाः करोत्याचार्यः । 'शिष्ये' शिष्यविषये 'उद्दिश्यमानादि' उद्दिश्यमानं समुद्दिश्यमानं वाच्यमानं अनुज्ञाप्यमानम् 'एतत्तु यत्कतिधा' कतिविधं चतुर्विधमित्यर्थः । ननु पूर्व नामादिकरणमनेकधोक्तं इह चतुर्विधमिति कथं ? उच्यते, पूर्वं सामान्येनोक्तम्, इह तु विशेषः गुरुशिष्यदानग्रहणकाले चतुर्विधमेव करणमिति । । १०२७ ।। कथमितिद्वारमाह - 1 कह सामाइयलंभो, तस्सविघाईय सव्वघाईय । देसविघाईयफडुग- अणंतवुड्डीविसुद्धस्स । ।१०२८ ।। कथं सामायिकस्य लाभ इति प्रश्नः । अस्योत्तरं 'तस्य' सामायिकस्य विघाति' आवरणं ज्ञानावरणं दर्शनावरणं मिथ्यात्वमोहनीयं च । एषां द्विविधानि स्पर्धकानि देशघातीनि सर्वघातीनि । तत्र सर्वघातिषु सर्वेषूद्धातितेषु देशघातिष्वप्यनन्तेषूद्धातितेष्वनन्तगुणवृद्धया विशुद्धस्य सतः किं ? ।।१०२८ ।। आ.नि.सा.नि. सूत्रस्पर्शक निर्युक्तिः करणद्वारे सामायिक करणम् । * गाथा - १०२८ भा. गा. १८३ ६४६ [१४२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy