SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६४४ *********** भा. आलोयणाय विए, खित्त दिसाऽभिग्गहे य काले य। रिक्ख गुणसंपया वि य, अभिवाहारे य अट्ठमए । । १७८ ।। आलोकना दीक्षार्थीपस्थितगृहस्थविचारणा । विनयः पदक्षालनादिः । क्षेत्रमिक्षुक्षेत्रादिः । दिगभिग्रहो वक्ष्यमाणः । कालश्चाहरादिः । ऋक्षसंपत् गुणसंपत् गुणाः प्रियधर्मादयः । अभिव्याहारश्चाष्टमः । पञ्चमद्वारे प्रतिद्वारगाथेयम् । अस्या आद्यद्वारमाह - भा. पव्वज्जाए जं जुग्गं, तत्तियालोयणा गिहत्थेसु । उवसंपयाय साहुसु, सुत्ते अत्थे तदुभए य ।।१७९ ।। प्रव्रज्यायां यत्प्राणिजातं पुंस्त्रीक्लीबभेदं उपस्थितम्, एतेषु गृहस्थेषु योग्योऽयमिति ज्ञातुं यावत्यालोकनोक्ताऽस्ति तस्य तावती कार्या 'कस्त्वं कुतो वा ते निर्वेद' इत्यादि प्रश्नैर्ज्ञातायां च योग्यतायां दीक्षां दद्यात् । उपसंपच साधुषु सूत्रेऽर्थे तदुभये वा विषयभूते कस्यचित्साधोर्द्विधाऽपि मन्दस्य विस्मरणात् मूर्खत्वाद्वा सामायिकाद्यर्थमप्युपसंपद् घटेत । विनयादिद्वारत्रयमेकगाथयैवाह - भा. आलोइए विणीयस्स, दिज्वाई तं पसत्थखित्तंमि । अभिगिज्झ दो दिसाओ, चरंतियं वा जहाकमसो । ।१८० ।। आलोकिते सति अभिगृह्याङ्गीकृत्य द्वे दिशौ पूर्वां वा उत्तरां वा चरन्तीं वा यथाक्रमशः । चरन्ती नाम यस्यां तीर्थङ्करकेवलिमनः पर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद्युगप्रधाना विहरन्ति । अमुमर्थं भाष्यकृदाह - अणुरत्तो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । १ 'प्रव्रज्याया' ललख प *********** ******** आ.नि.सा.नि. सूत्रस्पर्शकनिर्युक्तिः करणद्वारे सामायिक करणम् । गाथा - १०२७ भा. गाथा१७८-१८० ६४४ [१४०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy