________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६४३
भा. उप्पन्नाणुप्पन्नं, कयाकयं इत्थ जह नमुक्कारे । केणंति अत्थओ तं, जिणवरेहिं सुत्तं गणहरेहिं । । १७५ ।। स्पष्टा । नवरं 'जह नमुक्कारे' यथा नमस्कारनिर्युक्तौ । तृतीयद्वारमाह
-
भा. तं केसु कीरई तत्थ, नेगमो भणइ इट्ठदव्वेसु । सेसाण सव्वदव्वेसु, पज्जवेसुं न सव्वेसुं ।।१७६ ।। तत्सामायिकं केषु द्रव्येषु स्थितस्य क्रियते निर्वर्त्यते । नैगमो भणति इष्टद्रव्येषु मनोज्ञेषु शयनासनादिषु । तथाहिमनं भोयणं भुचा मणुनं सयणासणं । मणुनंसि अगारंसि मणुनं झायए मुणी । [ प्र० ]
शेषाणां सङ्ग्रहादीनां नयानां सर्वद्रव्येषु मनोज्ञामनोज्ञेषु । पर्यायेषु न सर्वेषु तेषामवस्थानार्भावात् । चतुर्थद्वारमाह - भा. काहु द्दिट्ठे णेगम, उवट्ठिए संगहो य ववहारो । उज्जसुय अक्कमंते, सद्द समत्तंमि उवउत्तो । । १७७ ।। कदा सामायिकस्य कारको भवति इति प्रश्न: । उत्तरं उद्दिट्ठे 'नेगमुत्ति' नैगमो मन्यते - उद्दिष्टेऽपि सामायिके गुरुणा, शिष्यस्तत्क्रियामकुर्वन्नपि सामायिकस्य कर्त्ता मन्तव्यः । सङ्ग्रहो व्यवहारश्च मन्यते उद्देशाऽनन्तरं यदा वन्दनकं दत्वा सामायिकमादातुमुपस्थितो भवति, तदा सामायिकस्य कारकः । ऋजुसूत्र एवं मन्यते सामायिकं पठन् सामायिकक्रियां वा प्रतिपद्यमानः कारकः शब्दादयो मन्यन्ते - समाप्तेऽधीते ज्ञाते सति शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः । पञ्चमद्वारमह -
**********
*****
आ.नि.सा.नि. सूत्रस्पर्शक
निर्युक्तिः
करणद्वारे
सामायिक
करणम् । गाथा - १०२७
भा.गा. १७५१७७
६४३
[१३९]