SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ६४१ कुणालाऽपि पञ्चदशदिनैरच्छिन्नवर्षणात् । सार्द्धं जनपदेनाम्भः पूरैः प्रावाह्यताऽखिला | ६ | तृतीयवत्सरे तौ च, साधू साकेतपत्तने । कालं कृत्वा सप्तमोर्व्या, द्वाविंशत्यतरायुषौ ॥७॥ कालाऽऽख्यनरकावासे, सञ्जायेते स्म नारकौ । कुणालाया विनाशस्य, कालाद्वर्षे त्रयोदशे ॥८॥ उत्पन्नं केवलज्ञानं, श्रीमद्वीरजिनेशितुः । इत्यादीन्यनिबद्धानि, श्रद्धेयानि मनीषिभिः । ९ । उक्तं श्रुतकरणम् ।। १०२३ ।। नोश्रुतकरणमाह - *************** नोसुयकरणं दुविहं, गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणं संजमे य तहा । । १०२४ ।। 'नो' निषेधे, श्रुतस्याऽकरणम् । तद् द्विविधं गुणकरणं तथा च योजनाकरणम् । गुणकरणं पुनर्द्विविधं तपःकरणं 'संयमे च तथा' संयमः पञ्चाश्रवविरतिरूपस्तस्य करणम् ।। १०२४ ।। अथ योजनाकरणव्याख्यामाह - जुंजणकरणं तिविहं, मणवइकाए य मणसि सच्चाई । सट्ठाणि तेसि भेओ, चउ चउहा सत्तहा चेव । ।१०२५ ।। योजनाकरणं त्रिविधम्, मनोवाक्काये । मनसि सत्यादौ योजनाकरणम् । वचस्यपि सत्यादौ । काये औदारिकादौ । 'स्वस्थाने' प्रत्येकं • अतरः सागरः इत्यर्थः । आ.नि. सामायिकनिर्युक्तिः सूत्र स्पर्शकनिर्युक्तिः करणनिक्षेपः । जीवभावकरणे श्रुतकरणे * अनिबद्धादेशे कुरुटोत्कुरुटो दृष्टान्तः । * गाथा - १०२४ १०२५ ******** ६४१ [१३७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy