SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आवश्यककालेवि नत्थि करणं, तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणे-हिंउणेगहा होइ ववहारो ।।१०१८।। आ.नि. नियुक्तिः व्यञ्जनप्रमाणेन व्यञ्जकद्रव्यबलेन कालस्याऽपि करणं भवति । यथात्र चातुर्मासिकं कृतमिति । तथा बवबालवादिभिः करणैरनेकधा सामायिकश्रीतिलकाचार्य-व्यवहारो भवति । तत्परिज्ञानं चैवं - नियुक्तिः लघुवृत्तिः सूत्रस्पर्शकशकुनिश्चतुर्दशीनिशि दर्श धुनिशोश्चतुःपाष्पादं नागम् । किंस्तुघ्नं प्रतिपद्दिन इति ध्रुवाण्यथ मुहुः क्रमशः ।।१।। स्युर्बवबालवकौलवतैत्तिल "qaane नियुक्तिः *गरवणिजविष्टिकरणानि । सर्वाण्यपि तिथ्यर्द्धप्रमितानि शुभानि विष्टिमृते ।।२।। कृष्णचतुर्दश्यां रात्रौ शकुनिः करणम्, दर्शऽमावास्यां करणनिक्षेपः। *धुनिशोदिनरात्र्यो अमावशीदिने चतुःप[ष्पादं रात्रौ नागम्, किंस्तुघ्नं प्रतिपदिन इति । ध्रुवाणि चत्वारि करणानि । अथानन्तरं मुहुः गाथा-१०१८६३८ पुनः पुनरावृत्या क्रमशः क्रमेणस्युर्भवेयुर्बवादीनि सप्त करणानि । सर्वाण्यपि तिथ्यर्धप्रमितानि शुभानि विष्टिर्भद्रा तां ऋते विना । द्वारम् । १०१९ १०१८।। अथ भावकरणमाह - __ जीवमजीवे भावे, अजीवकरणं तु तत्थ वनाई । जीवकरणं तु दुविहं, सुयकरणं नो अ सुयकरणं ।।१०१९।। भावकरणं द्विधा जीवभावकरणं अजीवभावकरणं च । तत्राऽजीवभावकरणं परप्रयोगमन्तरेणाऽभ्रादेर्नानावर्णान्तरगमनम् । ६३८ आदिशब्दाद्गन्धादिग्रहः । ननु विस्रसाद्रव्यकरणमप्येवमेवोक्तम्, तदत्र को विशेषः ? उच्यते, इह भावाधिकारात्पर्यायप्राधान्यम्, प्राग् [१३४] SSSSSS
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy