SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ * ** आवश्यक- * सर्वपरिशाटनमप्येकसामायिकमेव । तत्रान्त्यसमये ग्रहणस्याभावात् । औदारिकशरीरे संघाटनपरिशाटनोभयस्थितिकाल: क्षुल्लकभवग्रहणं आ.नि. नियुक्तिः त्रिसमयोनम्, कथं ? यः क्षुल्लकभवग्रहणकारी विग्रहेणोत्पद्यते, तस्य द्वौ विग्रहसमयौ संघातसमयश्चैकस्तैरूनम् । इह च सर्वजघन्यमायु:* सामायिकश्रीतिलकाचाये- क्षुल्लकभवग्रहणम् । 'खुड्डागभवगहणा साहियसत्तरसस्स आणपाणंमि ।' नियुक्तिः लघुवृत्तिः * भा. एयं जहन्नमुक्को-सयं तु पलियत्तयं तु समऊणं । विरहो अंतरकालो, ओराले तस्सिमो होइ ।।१६४ ।। सूत्रस्पर्शक_एतज्जघन्यं संघाटपरिशाटोभयकालमानम् । उत्कृष्टं पुन: पल्योपमत्रयमेकसमयोनम् । अविग्रहेणोत्पन्नस्त्रिपल्योपमायुराद्यसमये संघातं करोति ।* नियुक्तिः * तेन समयेन न्यून संघातपरिशाटोभयकालः । संघातात्संघातस्य परिशाटात् परिशाटस्याऽन्तरकालमाह -- * करणनिक्षेपः । गाथा-१०१६ ६३३ * भा. तिसमयहीणं खुल्लं, होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्वकोडी, समओ उदहीण तित्तीसा ।।१६५।। भा.गा.१६४[१२९] त्रयश्च समयाः समयश्च त्रिसमयास्तैहीनम् । ततश्च संघातयोस्त्रिसमयोनं क्षुल्लकभवग्रहणमन्तरम् । शाटयोस्तु समयोनं कथं ? द्वावाद्यौ . १६५ विग्रहसमयौ तृतीयः संघातसमयः सर्वबन्धकारी, तैस्त्रिभिरूनं क्षुल्लकभवग्रहणम् । अविग्रहेण प्राप्ताग्रेतनभवाद्यसमयस्य सर्वबन्धकारिणः * पूर्वस्मात्सर्वबन्धसमयादन्तरं सर्वबन्धकारिप्राग्भवाद्यसमयोनं क्षुल्लकभवग्रहणम् । सर्वशाटयोः पुनः क्षुल्लकभवग्रहणमन्त्येनैव सर्वशाट-* समयेन न्यूनमन्तरं जघन्यम् । उत्कृष्ट तु संघातयोरन्तरं पूर्वकोटीत्रयस्त्रिंशत्सागरोपमानि च समयाधिकानि । प्रथमेन संघातसमयेनोना * १. क्षुल्ल' - प, छ ल, ल, निश्चयनयमतेन सर्वशाटयोरन्तरमिदम्, व्यवहारनिश्चयोभयमतानुसारेण तु संपूर्णक्षुल्लकभवग्रहणं श्रीमलयगिरिवृत्त्या भावनीयम् । ६33 ********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy