________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
भणन्नेव नमस्कारं, मृत्वा यक्षोऽभवञ्च सः । चौरपानीयपायीति, धृत्वा श्राद्धस्तु रक्षकः ।५। राज्ञो निवेदिते सोऽपि, राज्ञा तद्वदकार्यत । नीयते सोऽपि तन्नीत्या, रक्षकैर्वध्यभूमिकाम् ।। यक्षोऽवधेस्ततोऽद्राक्षीत्स्ववपुः श्रावकं च तम् । ततः पर्वतमुत्पाट्य, स्थित्वा तन्नगरोपरि ।७। यक्षोऽवादीत् क्षमाध्यक्ष, क्षिप्रमेतमुपासकम् । भट्टारक क्षमयत, पतित्वा पादपद्मयोः ।। चूरयिष्यामि नो चेद्वः, सर्वानप्यमुनाऽद्रिणा । क्षम्यते स्म ततो गत्वा, राज्ञा सान्तःपुरेण सः ।। यक्षस्याऽऽयतनं तस्य, कार्यते स्म तथाऽद्भुतम् । एवं स्यात्परलोकेऽपि, नमस्कारफलानृणाम् ।१०। नमस्कारनियुक्तिः समाप्ता । संप्रति सूत्रोपन्यासार्थं सूत्रस्पर्शकनियुक्तिगाथामाह -
नंदिमणुओगदारं, विहिवदुवग्घाइयं च नाऊणं । काऊण पंचमंगल-मारंभो होइ सुत्तस्स ।।१०१३।। नन्दिमनयोगद्वारं 'विधिवद्य'थावत् 'उपोद्धातं' च उद्देसेनिद्देसे इत्यादि लक्षणं ज्ञात्वा 'पञ्चमङ्गलं' पञ्चपरमेष्ठिनमस्कारं कृत्वा सूत्रस्यारम्भो * भवति ।।१०१३।। सूत्रं च प्रथमं सामायिकं तत्सम्बन्धार्थमाह -
आ.नि. नम.नि. फलद्वारम् नमस्कारफले दृष्टान्ताः परलोके स्वर्गलाभे हुण्डिकः। गाथा-१०१३
६२७
準準準準準準準準準準準準準
६२७ [१२३]
१. फलं - प ।.क्षमाध्यक्षः - नृपः, तम् ।