________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
तयाऽऽख्यायि प्रभो चण्डपिङ्गलेन सहास्त्यसौ । स चण्डपिङ्गलो राज्ञा, शूलायां रोपितस्ततः ।६। वेश्ययाऽचिन्ति मद्दोषाद्वराकोऽसौ निपातितः । ततस्तस्य नमस्कारान्, सा ददाति स्म पार्श्वगा ।७। अचीकरनिदानं च, यनमस्कारपुण्यतः । अहमेतस्य भूयासं, भूपतेस्तनुभूरिति ।८। तत्प्रभावात्तदैवाऽभूद्राज्ञस्तस्यैव सोऽङ्गजः । तस्य क्रीडनधात्री च, सा वेश्याश्राविकाऽभवत् ।। तन्मृत्योरस्य चोत्पत्तेः, समः कालः स चेद्भवेत् । क्रीडयन्ती तमचे सा, चण्डपिङ्गल ! मा रुदः ।१०। जातिस्मृत्या स संबुद्धो, नृपः सोऽभूत्पितुः मृतौ । व्रतमात्तं चिरात्ताभ्यां, क्रमात्सिद्धिं च जग्मतुः ।११। तस्याऽभूत्सुकुले प्रत्यायातिः साम्राज्यमुज्ज्वलम् । सिद्धिश्च क्रमशो जाता, नमस्कारप्रभावतः ।१२।
आ.नि. नम.नि. फलद्वारम् नमस्कारफले दृष्टान्ताः परलोके सुकुलजन्म सिद्धिलाभे चण्डपिङ्गलः। गाथा-१०१२
६२६
श्रावको जिनदत्तोऽभूद्वास्तव्यो मथुरापुरि । हुण्डिकः परिमोषी च, मुमोष नगरी सदा ॥१॥ कदाप्यारक्षकद्धुत्वा, स शूलामधिरोपितः । जिनदत्तं पथि प्रेक्ष्य, चोरो नीरमयाचत ।२। श्रावकः सानुकम्पस्त्वं, स्यान्मे प्रेत्याम्बुशम्बलम् । सोऽवक् पठ नमस्कारममुं देवगतिप्रदम् ।। पाययाम्यथ पानीयं, तमुदन्यन् पपाठ सः । श्रावकः सोऽथ पानीयं, तं पाययितुमानयत् ।४। उदन्यन् - उदकमिच्छति इति उदन्य - नामधातु - वर्तमानकृदन्तस्य प्रथमा० एक० ।
६२६ [१२२]
XXXRRRRRK