SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६२१ पुव्वाणुपुव्वि न कमो, नेव य पच्छाणुपुव्वि एस भवे । सिद्धाईया पढमा, बिइयाए साहुणो आई । । १००८ ।। क्रमस्तावत् पूर्वानुपूर्वी पश्चिमानुपूर्वी वा । अत्र तु नमस्कारे नोभयमपि, यतः प्रथमा पूर्वानुपूर्वी सिद्धादिः स्यात्, सिद्धानामर्हदादिभिरपि नमस्कार्यत्वात् । द्वितीया पश्चिमानुपूर्वी साध्वादिः स्यात् ।। १००८ ।। अधुना पूर्वानुपूर्वीत्वं स्थापयन्नाह - अरिहंतुवएसेणं, सिद्धा नज्वंति तेण अरिहाई । न य कोइ वि परिसाए, पणमित्ता पणमई रन्नो ।। १००९ ।। अर्हदुपदेशेन सिद्धा ज्ञायन्त इत्यर्हृदादिः पूर्वानुपूर्वी । यत्पुनरुक्तं अर्हन्नमस्कार्यत्वात्सिद्धानां तदादिः पूर्वानुपूर्वी प्राप्नोति तदयुक्तं यतोऽर्हदुपदेशेनाऽर्हन्नमस्काराच्च कर्म क्षपयित्वा सिद्धा अपि सिद्धत्वं प्राप्ताः । न हि सिद्धोपदेशेनार्हत्वादिकं कस्यापि भवति । न च सिद्धान् चर्मचक्षुषः कदापि पश्यन्ति । अर्हन्तस्तु वर्तमानास्तैरपि दृश्यन्ते । ततः प्राधान्यादर्हदादिरेवानुपूर्वी । एवं तर्ह्यचार्याः सर्वदा भवन्ति, तदुपदेशेन चार्हन्तोऽपि ज्ञायन्ते इति तदादित्वं स्यात्, तन्न, पर्षत्प्रायास्ते, न हि कोऽपि पर्षदं नत्वा राज्ञः प्रणमति ।। १००९ ।। अथ प्रयोजनद्वारमाह - इत्थ य पओयणमिणं, कम्मक्खय मंगलागमो चेव । इहलोगपारलोइय, दुविह फलं तत्थ दिट्ठता । । १०१० ।। स्पष्टा । दृष्टान्ता वक्ष्यमाणाः ।।१०१० ।। इहपरलोकप्रयोजने आह - ******* आ.नि. नम.नि. * प्रसिद्धिद्वारम् । * क्रमद्वारम् । * प्रयोजनद्वारम् । गाथा - १००८ १०१० ६२१ [११७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy