________________
श्रीतिलकाचार्य-स्थापना, तद्वारमाह -
आवश्यक- सिद्धिं गताश्च सिद्धशब्देन । विस्तरश्चेद् भवेत्, तदाऽतीतानागतवर्त्तमानतीर्थकृतां आचार्योपाध्यायसाधूनां प्रत्येकं नामग्रहणं क्रियेत । सिद्धानां आ.नि. नियुक्ति: *च एकसमयादिसिद्धतीर्थसिद्धादिग्रहणं विधीयेत । इत्येवमनेकविधः स्यात्, न पञ्चविधो युज्यते । इत्याक्षेपद्वारम् ।।१००६ ।। अथ प्रसिद्धिः नम.नि.
आक्षेपद्वारम् । लघुवृत्तिः
प्रसिद्धिद्वारम्। अरिहंताई नियमा, साहू साहू य तेसु भईयव्वा । तम्हा पंचविहो खलु, हेउनिमित्तं हवइ सिद्धो ।।१००७।।
गाथा-१००७ * अर्हदादयो नियमात्साधवस्तद्गुणानामपि तत्र भावात् । साधवश्च तेष्वादादिषु भक्तव्या विकल्पनीयाः । नहि साधवः सर्वेऽप्यर्हन्तः किन्तु *
* केवलिन एव, अपरे आचार्याः, अन्ये उपाध्यायाः, इतरे शैक्षमात्राः । ततश्च यथा नृपमाण्डलिकामात्यवणिगादयः सर्वेपि मनुष्याः उच्यन्ते, ६२०
* तत्किं यन्नृपादिभिर्नमस्कृतैः फलं लभ्यते तत्किं वणिगादिनमस्कारेऽपि स्यात् ? एवं यदर्हदादिषु नमस्कृतेषु फलं लभ्यते तत्किं साधुमात्रे *नमस्कृते स्यात् ? तन्न द्विविधो नमस्कारो युक्तः । नाऽप्यनेकविधः, सर्वेषां नामोच्चारणस्याऽशक्यत्वात् । तस्मात् 'हेतुनिमित्तं' हेतवो 'मग्गे *
अविप्पणासो' इत्यादयस्तन्निमित्तं तदर्थं पञ्चविध एव नमस्कारो युक्तः सिद्धः स्थापितः ।।१००७।। क्रमद्वारमाह -
६२०
*
१.क्रियते ख । २. 'इत्येक'... छ ।
[११६]