________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः
६१६
**********
आयरियनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुण बोहिलाभाए ॥१॥ आयरियनमुक्कारो, धन्नाण भवक्खयं करंताणं । हिययं अणुमोयंतो, विसुत्तियावारओ होइ |२| आयरियनमुक्का, एवं खलु वनिओ महत्थुत्ति । जो मरणंमि उवगए, अभिक्खणं कीरई बहुसो |३| आयरियनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, तइयं हवइ मंगलं ॥४॥
उक्त आचार्यनमस्कारः । । ९९५ ।। अथोपाध्यायनमस्कारः । स चोपाध्यायश्चतुद्धेत्याह
नामंठवणादविए, भावंमि चडव्विहो उवज्झाओ । दव्वे लोइय सिप्पाइ, निह्नवा वा इमे भावे । । ९९६ ।। इयमाचार्यगाथावदुक्तार्था । नवरं 'निह्नवा वा' ते ह्यभिनिवेशादेकमपि पदार्थमन्यथा प्ररूपयन्ती मिथ्यादृश इति द्रव्योपाध्यायाः । इमे वक्ष्यमाणा भावे । । १९६ ।।
बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । तं उवइसंति जम्हा, उवज्झाया तेण वुचंति । । ९९७ ।। स्पष्टा । नवरं 'तं उवइसंति' सूत्रवाचनारूपेणाऽध्यापयन्ति ।।९९७ ।। आगमशैल्या उपाध्यायशब्दाक्षरार्थमाह -
• इतो गाथाचतुष्टयं हारिभद्रीयवृत्ती सादृश्यत्वात् नोक्तम् । अपि तु मलयगिरिवृत्तौ चतस्त्रोऽपि गाथा दर्शिताः क्रमेणाङ्गिताश्च । अत्र तिलकसूरिभिरपि दर्शिताः सन्ति ततोऽस्माभिर्हारिभद्रीयवृत्या सह क्रमानुसन्यार्थमिदं गाथाचतुष्टयं निर्युक्तिगाथात्वेनाङ्कितं नास्ति । इतः मलयगिरिवृत्याः क्रमाङ्कभेदो वेदितव्यः ।
*****************************
आ.नि.
नम.नि.
वस्तुद्वारे
आचार्य
नमस्कारः
भावाचार्य
स्वरूपः ।
* गाथा- ९९६
९९७
६१६
[११२]