________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
६१३
जह नाम कोई मिच्छो, नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेडं, उवमाइ तहिं असंतीए । १९८३ ।। अक्षरार्थः स्पष्टः ।। ९८३ । । भावार्थ: कथातो ज्ञेयः । सा चेयं -
अभूदपारे कान्तारे, म्लेच्छ एको हि भद्रकः । इतश्च श्रीपुराऽधीशो, हृतोऽश्वेन तदा जवात् ॥१॥ दृष्टस्तेनाऽथ सत्कृत्य, स्वस्थानं प्रापितः सुखम् । भूभुजाऽप्युपकारीति, स गाढमुपचर्यते ॥२॥ राजेव तिष्ठति सुखं सौधे शब्दादिभोगभाक् । कालेनाऽरण्यमस्मार्षीद्विसृष्टोऽथ नृपेण सः ॥ ३ । आरण्यकास्तमप्राक्षुः कीदृशं पुरमस्ति तत् । जानानोऽपि पुरगुणानुपमाया अभावतः ।४ । तेषां शक्नोति नाऽऽख्यातुमिदमत्र निदर्शनम् ।।९८३ ।।
अयमिहोपनयः -
इय सिद्धाणं सुक्खं, अणोवमं नत्थि तस्स उवम्मं । किंचिवि सेसेणित्तो, सारिक्खमिणं सुणह वुच्छं ।।९८४ ।। 'इय' एवं सिद्धानां सौख्यमनुपमम् । कुतो ? यतो नास्ति तस्योपम्यं किञ्चिदपि 'शेषेण' एकदेशेन । 'इतः ' आर्षत्त्वादस्य सादृश्यमिदं शृणु वक्ष्ये ।।९८४ ।। तथाहि -
१. तदीयिवान् प, ख । 'तदीयवान्' ल ल, । २. 'राज्ये च' ल ।
******
आ.नि.
नम.नि.
वस्तुद्वारे सिद्धनमस्कारः
सिद्धसुखम् ।
गाथा - ९८३
९८४
६१३ [१०९ ]