________________
आवश्यक
आ.नि.
नम.नि. वस्तुद्वारे
सिद्धनमस्कारः
तु कपाटं संहरति ततोऽष्टमे दण्डम् ।।२।। योगश्चात्र काययोग एव व्याप्रियते न मनोयोगवाग्योगौ । काययोगोऽपि सप्तविधत्वात्क्व कदा निर्युक्तिः व्यापिपत्ति ? उच्यते, औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः, मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु, कार्मणशरीरयोगी चतुर्थके पञ्चमे श्रीतिलकाचार्य- * तृतीये च समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् । समुद्धाताऽनन्तरं योगत्रयमपि व्यापारयेत् । अनुत्तरसुरपृष्टो मनोयोगं लघुवृत्तिः सत्यमसत्यामृषं वा प्रयुङ्क्ते । एवमामन्त्रणादौ वाग्योगमपि नेतरौ द्वौ । काययोगमप्यौदारिकं फलकप्रत्यर्पणादौ । ततोऽन्तर्मुहूर्त्तेन योगनिरोधं करोति । तत्र भाषायोगनिरोधे भाषाग्रहणादाद्यन्तयोगग्रहणम् । ततश्च प्रथमं मनोयोगं स्तोकस्तोकेन सङ्ख्यातसमयैर्निरुणद्धि । अथ वाग्योगमसङ्ख्यातसमयैः । ततः काययोगमप्यसङ्ख्यातसमयैर्निरुध्य 'शैलेशीं' शैलेशो मेरुस्तत्कल्पां स्थिरतां प्रपद्यते । सा च पञ्च ह्रस्वाऽक्षरोच्चारणमात्रं कालं भवति । स च काययोगनिरोधारम्भात् प्रभृति सूक्ष्मक्रियानिवृत्तिध्यानम्, ततः सर्वनिरोधे शैलेश्यवस्थायां गाथा - ९५६ व्युच्छिन्नक्रियमप्रतिपातिध्यानं ध्यायति । ततो भवोपग्राहिकर्माणि क्षपयित्वा ऋजुश्रेण्या अस्पृशद्गत्या सिद्धिं याति ।। ९५५ ।। समुद्धाते च शीघ्रं वेद्यं कर्म क्षप्यते इत्यत्र को दृष्टान्त इत्याह -
服
समुद्घात
स्वरूपः ।
६०६
********
जह उल्ला साडीया, आसुं सुक्कइ विरल्लीया संती । तह कम्मं [म्म ] लहुयसमए, वनंति जिणा समुग्धायं ।। ९५६ ।। यथा आर्द्रा साटिका विरलीकृता आशु शुष्यति, तथा समुद्धाते जीवप्रदेशेषु विस्तारितेषु वेद्यकर्मजलं शुष्यति । ततः कारणात् 'कर्मलघुतासमये' आयुः कर्माऽल्पत्वे व्रजन्ति जिनाः समुद्धातम् ।।९५६ ।। क्रिया हि कर्मजन्या, निःक[क]र्माणः कथं सिद्धिं गच्छन्तीत्याह
*****
६०६
[१०२]