SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः न किलम्मइ जो तवसा, सो तवसिद्धो दढपहारिव्व । (पूर्वार्द्धः) गाथार्द्ध स्पष्टम् । कथा चेयं - धिगजातिरेको दुर्दान्तो, दुविनीतः पुरे क्वचित् । स्थानानिःसारितो दुष्टश्चौरपल्ली भ्रमन् ययो ।१। चौरसेनापतिस्तं च, पुत्रबुद्ध्या प्रपन्नवान् । मृते तस्मिन् स एवाभचौरसेनापतिस्ततः ।। दृढप्रहारीनाम्नाऽभूद, दृढप्रहारकः स यत् । ससेनः सोऽन्यदाऽयासीद्राममेकं विलुण्टितुम् ।३। तत्रको निःस्वविप्रोऽभूहिम्भरूपैः स मार्गितः । याचित्वाऽक्षतदुग्धादि, परमान्नमपाचयत् ।४।। स्वयं स्नानकृते सोऽगाञ्चौर एकस्तु तद्गृहे । प्रविष्टः पायसस्थालीमपहृत्य जगाम सः ।५।। रुदन्ति डिम्भरूपाण्याख्यन्पितुः पायसं हतम् । दधावे सोऽथ रोषेण, चौराणां निजिघृक्षया ।६। अनेकांस्तस्करांस्तत्र, परिघेण जघान सः । चौरसेनापतिर्दाममध्येऽभूत्तेन चिन्तितम् ।७। हन्ति कोऽप्येष मझौरान, खड्गमाकृष्य धावितः । तत्राऽऽगादन्तरे धेनुस्तामहन्नथ तं द्विजम् ।८। तद्ब्राह्मणी तमूचेऽथ, किं कृतं नि:कृष्कृ]प ! त्वया । सापि व्यापादिता तेन, तद्गर्भोऽपि द्विधाकृतः ।। प्रस्फरन्तं तमालोक्य, करुणाऽस्याऽभवत्तदा । हाहा चक्रे मया पापं, का भविष्यति मे गतिः ।१०। आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः तपःसिद्धः। दृढप्रहारी। गाथा- ९५२ बारी ६०३ 藥業樂業樂業準準準準準準準準 景崇凝露暴紧器紧器紧紧靠靠靠靠靠靠靠 ६०३ [९९]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy