________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
६०२
श्रुत्वा खडखडाशब्दं, ते जङ्गे विरले व्यधुः । पश्चाद्वीक्ष्य स तैः शप्तः, पाप ! स्त्रीतो विनंक्ष्यसि । ६ । मिथ्या वागस्त्वमुष्येति सोऽवसत्तापसाऽऽश्रमे । आतापयन्नदीकूले, ग्रामादौ न विशत्यपि ॥७॥ सार्थे तत्राऽऽगते तस्य, स्यादाहारः कदाचन । कायोत्सर्गवतः कूले, नद्याः पूरोऽन्यतोऽवहत् ॥८ ॥ कूलवालक इत्याख्या, ततोऽभूदस्य विश्रुता । तत्रस्थं तं चरैर्ज्ञात्वाऽऽजूहवद्गणिकां नृपः । ९ । तत्र मागधिका स्माह, तमानेष्याम्यहं मुनिम् । सा दम्भश्राविका भूत्वा कृत्वा सार्थं तमभ्यगात् ॥ १० ॥ ऊचे चाभर्तृका तीर्थयात्रार्थं चलितास्म्यहम् । श्रुत्वाऽत्र जङ्गमं तीर्थं, प्रभो ! त्वां नन्तुमागमम् । ११ । सौषधान् मोदकान् साऽदाज्जातस्तैः सोऽतिसारकी । अभ्यङ्गोद्वर्त्तनाद्यैस्तं पालयन्ती वशे व्यधात् | १२ | नाऽन्यथा स्युर्गुरोर्वाचः, साऽथ तं कटकेऽनयत् । स राज्ञोचे कुरु तथा, वैशाली गृह्यते यथा । १३ । वर्णिलिङ्गी प्रविश्याथ, स पुरीमैक्षताखिलाम् । स्तूभप्रभावमालोक्य, तदग्रहणकारणम् ११४ ।
पशमाख्याय, तं स्तूभमुदखानयत् । कूलवालकदुःसाधोर्गणिकायाश्च तुर्यधीः । १५ ।
'इंदि'त्ति इन्द्रकुमारिकाः पारिणामिक्या चाणिक्येनोद्खाता इति प्रागुक्तम् । उक्तोऽभिप्रायसिद्धः । तपःसिद्धमाह -
******************************
आ.नि.
नम.नि. वस्तुद्वारे
सिद्धनमस्कारः बुद्धिसिद्धः
पारिणामिकी।
स्तूभः ।
गाथा - ९५१
६०२
[९८]