________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
६००
******
प्रदर्श्य खेचरयुगं, पृष्ट आख्यदुभे समे । अग्रे च देवमिथुनं दर्शयित्वा स पृष्टवान् ॥९॥
ऊचे स्वामिन् ! पुरोऽमुष्याः, सुन्दरी वानरी न वा । साधुः स्माहेदृशी स्वल्पेनापि धर्मेण लभ्यते ॥ १० ॥ विचिन्त्य प्रतिबुद्धः स सुन्दरीमोहमत्यजत् । परिव्रज्यामुपादत्त, सा साधोः पारिणामिकी १११ । मा भूदवज्ञा सङ्घस्य, तन्माता नानुवर्तिता । इत्याद्यनेकशो वज्रस्वामिनः पारिणामिकी । कथा प्रागुक्ता । राजा व्युद्वाह्य कैश्चित्तरुणस्तरुणैर्नरैः । मुच्यतां मन्त्रिणो वृद्धाः, क्रियन्तां तरुणाः पुनः ।१ । परीक्षितुं स तानूचे, राजानं हन्ति योंऽहिणा । दण्डः कस्तस्य तेऽप्याहुः, खण्डशः स विदार्यते ॥ २ वृद्धाः पृष्टा नृपस्याहुर्विमृश्य कथयिष्यते । दध्युस्तेऽथ नृपं कोऽन्यो, हन्ति देवीं विनाऽहिणा ॥३॥ तेऽथाऽऽगत्य नृपस्याऽऽख्यन् देव, ! सत्कार्य एव सः । तुष्टो राजा ततोऽमात्यान्, वृद्धानेव सुधीर्व्यधात् |४ | राज्ञो वृद्धानाञ्च पारिणामिकी ।
केनाप्यामलकं राज्ञोऽर्पितं मन्त्र्याह वीक्ष्य तत् । अत्यामलकमेतर्हि, तदिदं देव ! कृत्रिमम् । मन्त्रिणः पारिणामिकी । पक्षिणामण्डकान्यत्ति, कोऽप्यारुह्य फणी तरी । कुलायमागतः सोऽहिर्गृध्रेण निहतोऽन्यदा । १ ।
मणिस्तस्य पपाताऽधः, कूपे रक्तमभूत्पयः । दारकः कोऽपि तद्द्दृष्ट्वा, वृद्धस्याऽऽख्यत्स दध्यिवान् |२|
******************************
आ.नि. नम.नि.
वस्तुद्वारे
सिद्धनमस्कारः
बुद्धिसिद्धः
पारिणामिकी |
चरणाहन
नादि ।
गाथा - ९५१
६००
[९६]