________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
कुर्वन्ति चौरिकां नान्दास्तदाऽऽरक्षं विमार्गयन् । नन्तं मत्कोटकानुष्णजलक्षेपेण तद्विले ।४१। प्रेक्ष्याऽप्राक्षीत्कुविन्दं स, नलदामं करोषि किम् । स ऊचे मेऽदशत्सूनुमेको ननस्म्यमूंस्ततः ।४२। रोद्रं ज्ञात्वाऽथ तं प्रातराकार्याऽऽरक्षकं व्यधात् । विश्वास्याऽऽमन्त्र्य चौरान्स सर्वानज्वालयगृहे ।४३। भिक्षा नेकत्र लब्धाऽभूटामे तं प्रत्यथाऽऽदिशत् । कार्या वंशवृत्तिश्चुतैस्तमधाक्षीत्कृतेऽन्यथा ।४४ । विमृश्य पारिणामिक्या, धिया कोशविवृद्धये । दीनारैर्भाजनं भृत्वा, द्यूतं रेमे चणिप्रसूः ।४५। कूट: पाशः समं पोरैः, स्थालं गृह्णात्वमुं जयी । दीनारं मे जये दद्यादेवं कोशश्चिराद्भवेत् ।४६। ध्यात्वोपायमथाऽन्यं स, पौरान स्वीकस्यभोजयत् । मद्यं चापाययत्तेषु, मत्तेष्वथ ननर्त्त सः ।४७। ऊचे द्वे धातुरक्ते मे, वाससी स्वर्णकुण्डिका । त्रिदण्डं च वशे राजा, होलां वादयताऽत्र भोः ।४८। ऊचेऽन्यो व्रजतो मत्तहस्तिनो लक्षयोजनम् । पदे पदेऽस्ति लक्षं, मे होलां वादयताऽत्र भोः ।४९। ऊचेऽपरस्तिला: सूप्ते, यावन्तः स्युस्तिलाऽऽढके । तावन्तः सन्ति लक्षा मे, होलां वादयताऽत्र भोः ।५०। ऊचेऽन्यो दीर्घवेगायाः, पूरं नद्यास्तपात्यये । एकाहम्रक्षणे रुन्थे, होलां वादयताऽत्र भोः ।५१। १. 'जलदान' ल । नलदाम - कुविन्दस्याभिधानम् । २. वादय वादयः ल, । ३. तिला उप्ता यावन्तः ल, पातपात्ययः वर्षर्तुः, तस्मिन् ।
आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः
बुद्धिसिद्धः पारिणामिकी। चाणिक्यः। गाथा-९५१
५९७
५९७
[९३]
BRIXXXIII