SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ५९५ ववृधे स क्रमात् स्वर्णसिद्धिं चाऽऽप चणिप्रसूः । चन्द्रगुप्तोऽन्यदा रेमे, राजनीत्याऽर्भकैः समम् ।१८। चाणिक्योप्याऽऽगतः प्रेक्ष्याऽयाचन्मे देहि किञ्चन । ऊचे गृहाण गा एता, हन्ता कोऽपि न गृह्णतः १ । १९ । ऊचे किं त्वं न जानासि वीरभोज्या वसुन्धरा । तच्छ्रुत्वा चणिसूर्जज्ञौ, तेजोऽस्त्यस्य नृपोचितम् ॥२०॥ पृष्टं कस्याऽयमूचेऽभैः परिव्राट्सूनुरेषकः । एहि सोऽहं परिव्राट् भोः ! कुर्वे त्वां सत्यभूभुजम् । २१ । चाणक्यस्तं गृहीत्वाऽगात्सैन्यं स्वर्णैरमेलयत् । रुरोध पाटलीपुत्रं भग्नो नन्देन सोऽनशत् । २२ । दृष्ट्वाऽश्ववारमायान्तं, मौर्य पद्मवनेऽक्षिपत् । स्वयं च रजको जातः, पृष्टस्तेनेदमूचिवान् | २३ | मौर्य: पद्मसरस्येष, तं दृष्ट्वोत्तीर्णवान् हयात् । चाणक्यस्य समर्प्यऽश्वं, मुक्त्वाऽसिं मोचकेऽमुचत् । २४ । यातुं यावज्जले तावचाणिक्येन हतोऽसिना । चन्द्रगुप्तमथाऽऽकार्याऽधिरोप्याश्वं पलायितौ ॥ २५ ॥ पृष्टोऽसि त्वं यदाऽनेन मया शिष्टस्तदा त्वया । किं दध्ये सोऽवदत्रूनमेवमार्यस्य शोभनम् ॥ २६ ॥ ज्ञातं तेनाऽथ योग्योऽयं, न मे व्यभिचरत्यसी । मौर्य क्षुधार्त्त मुक्त्वाऽथ, चाणक्योऽन्त्राय यातवान् ॥२७॥ मा ज्ञासीत्कोऽपि नो भुक्तविप्रस्य बहिरीयुषः । विपाट्योदरमादाय, दध्योदनमुपागतः । २८ । भोजयित्वा चन्द्रगुप्तं, ग्रामेऽन्यत्र गतौ निशि । चाणिक्यो भिक्षितुमगात्, वृद्धयाऽग्रेऽर्भभाजने । २९ । *************** ************ आ.नि. नम.नि. वस्तु सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी | चाणिक्यः । गाथा - ९५१ ५९५ [९१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy