SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ततः कार्तिकराकायां, प्राग्न्यस्ताऽऽसन्युपाविशत् । नन्दार्थ चास्ति तत्र्यस्तं, निमित्ती नन्दमूचिवान् ।८। द्विजोऽयं नन्दवंशस्य, छायामाक्रम्य तस्थिवान् । दास्यूचेऽत्राऽऽस्यतां विप्र !, सोऽमुचत्तत्र कुण्डिकाम् ।९। तृतीये दण्डिकां न्यास्थञ्चतुर्थे जपमालिकाम् । घृष्टोऽयमिति विज्ञाय, कृष्टो धृत्वा पदेऽथ सः । सोऽथ क्रुद्धः विप्रोऽवादीत् ।१०।। कोशैश्च भृत्यश्च निबद्धमूलं पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्त्तयामि महागुमं वायुरिवोगवेगः ॥११॥ दध्यो गुरुभिरुक्तोऽस्मि, बिम्बान्तरितराज्यकृत् । राज्ययोग्यस्य कस्याऽपि, प्रेक्षार्थ सोऽथ निर्ययौ ।१२। मौर्यग्रामे स नान्देऽगात्परिव्राजकवेषभाक् । तत्र ग्रामपतेः पुत्र्याश्चन्द्रपानेऽस्ति दोहदः ।१३। पृष्टः परिव्राट् तत्पूर्त्य, सोऽवक् चेद्दत्त मेऽर्भकम् । दोहदं पूरयाम्यस्यास्तदप्यातरमन्यत ।१४।। तत्र राकादिने जाते, कारितः पटमण्डपः । भृत्वा स्थालं च दुग्धेन, रसत्रहव्ययोगिना ।१५। नभोमध्यागते चन्द्रे, तत्रानाय्यत सा सुता । छिद्रेण बिम्बितं चन्द्र, क्षीरान्तर्वीक्ष्य सा पपो ।१६ । उपर्यारोपितः प्राक् द्राक्, छिद्रमाच्छादयत्पुमान् । पूर्णेऽस्या दोहदे पुत्रश्चन्द्रगुप्ताऽभिधोऽभवत् ।१७। आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी। चाणिक्यः। गाथा-९५१ ५९४ KR******* ५९४ [९०] • दुग्धस्य विशेषणम् ।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy