SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः *** सर्वे जातिस्मरत्वेन, प्रासुकाऽऽहारभोजिनः । कस्याऽपि भूपतेः पुत्रः, सर्पदष्टोऽन्यदा मृतः ।४। सर्पेषु द्वेषमापन्नः, स नृपः पुत्रवैरतः । हत्वाऽऽनयति यः सर्प, दीनारं तस्य यच्छति ।५। कोऽप्याहितुण्डिकस्तेषां, रेखा वीक्ष्याऽऽययौ बिलम् । औषध्याकृष्टनिर्गच्छत्सर्पशीर्षाणि सोऽच्छिनत् ।। कञ्चिन्मा वधिषमिति, निर्ययो न स संमुखः । निर्गतं निर्गतं तं स, चिच्छेद स्वां च सद्गतिम् ।७। उपनिन्ये स तान राज्ञस्तेन पापः स सत्कृतः । नागदेवतयाऽबोधि, सोऽथ राट् ! मा वधीरहीन् ।८। भविष्यति सुतो नागैर्दत्तस्ते भूपते ! ततः । क्षपकाहिर्मृतः सोऽभूनागदत्तस्तदङ्गजः ।९।। उन्मुक्तबालभावः स, साधुन् दृष्ट्वाऽग्रहीद्वतम् । जग्राहाऽभिग्रहं चैतं, कोप: कार्यों मया न हि ॥१०॥ क्षुल्लकोऽतिक्षुधावांश्च, बहुकृत्वः स जेमति । तिर्यग्योन्यागताः प्रायो, भवन्ति प्रचुरक्षुधः ।११।। विद्यन्ते तत्र गच्छे च, चत्वारः क्षपकोत्तमाः । एकद्वित्रिचतुर्मासोपवासकृतभोजनाः ।१२। आगत्य देवता रात्री, मुक्त्वा सर्वांस्तपस्विनः । वन्दित्वा क्षुल्लकं यान्ती, क्षपकस्तां करेऽधरत् ।१३। ऊचेऽन्त्रकीटमेतं त्वं, वन्दसे कटपूतने ! । मासादिक्षपकानस्मानतिक्रम्य प्रयासि च ।१४। वन्देऽहं भावक्षपकानान्यानुक्त्वेति साउगमत् । प्रातर्दोषान्नमानीय, क्षपकान् स न्यमन्त्रयत् ।१५ । 4424244 आ.नि. नम.नि. वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी। क्षपकः । गाथा-९५१ ५९२ ५९२ 中華举業樂華業 平華華華業華業 ८८
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy