SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तद्वैराग्याहृतं राज्ञी, प्रपद्य स्वः सुरोऽभवत् । परलोकं गते राज्ञि, पुष्पचूलोऽभवन्नृपः ।४। दध्यो पुष्पवतीदेवो, यद्येवं भोगभागिदम् । मरिष्यत्यविरक्तं सत्ततो यास्यति दुर्गती ।५। ततोऽसो दुहितुः स्वप्ने, भीष्मं नरकमेक्षयत् । सा तं पाषण्डिनोऽप्राक्षीनाऽऽख्यंस्ते तं तदीक्षितम् ।६। तमाख्यंस्तादृशं पृष्टा, अनिकापुत्रसूरयः । तद्वत्तयैक्षि स्वर्गोऽपि, तथैवाऽऽख्यंश्च सूरयः ।७। ऊचे सा स्वर्गनरको, किं युष्माभिरपीक्षितौ । अवोचस्ते जिनेरुक्तं, श्रुतं नः सर्वमस्त्यदः ॥८॥ स्वामिन्नेतो कथं जीवा, लभन्ते गुरुरूचिवान् । नरकं विषयासक्ता, विषयत्यागिनो दिवम् ।। नरकाद्धीरुरादत्त, व्रतं साऽथ तदन्तिके । इयं पुष्पवतीदेवीदेवस्य पारिणामिकी ।१०। पुरं पुरिमतालाऽऽख्यं, राजा तत्रोदितोदयः । श्रीकान्ता तस्य कान्ता च, द्वावपि श्रावकोत्तमी ।। जिता प्रव्राजिका राज्या, विचारेणाऽन्यदाऽथ सा । मुखमोटनदानाद्यैश्चेटीभियंकृताऽगमत् ।२। अथोद्वहन्ती प्रद्वेष, ययौ वाराणसी पुरीम् । तत्र धर्मरुचीराजाऽदर्शयत्साऽथ तत्पुरः ।३। श्रीकान्तां चित्रफलके, लिखित्वा सोऽथ तन्मनाः । तामानेतुं भटान् प्रैषीक्षिप्तास्तेनाऽपमान्य ते ।४। सर्वोघेणाऽथ गत्वा स, तत्पुरं परितोऽरुणत् । उदितोदयराट् दध्यावियल्लोकक्षयेण किम् ।५। आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी। उदितोदयः। गाथा-९४९ ९५१ ५८८ ५८८ [८४] *#####
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy