SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ * आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः प्रत्यभिज्ञाय तस्याऽदात्स्वर्णं सा भिक्षया सह । पूञ्चक्रेऽथ मुनिधृत्वा, निन्ये राज्ञोऽन्तिके भटेः ।१७। धात्र्या ज्ञातो नमश्चक्रे, पुत्रेण च महीभुजा । वज्रा विप्रसमेताऽपि, विदधे देशताडिता ।१८। चतुर्मासी च काष्ठर्षिः, कारितस्तत्र भूभुजा । धर्म श्रुत्वा श्रावकोऽभूभृपतिः स सनागरः ।१९। वर्षारात्रेऽथ संपूर्णे, काष्ठर्षेः प्रतिपदिने । राज्ञानुगम्यमानस्य, विहारं कुर्वतस्तदा ।२०। द्वचक्षरी भ्रष्टिकारूपा, गुर्विण्युत्थापिता द्विजैः । अपभ्राजनमाधातुं, महर्षेः साऽब्रवीदिदम् ।२१। किमेवं मां विधाय त्वं, प्रविहाय प्रयासि भोः ! । विषसादाऽखिलो लोकस्तच्छ्रुत्वा दुःश्रवं वचः ।२२ । मुनिरूचे मदीयोऽयं, गर्भश्चेन्न भवत्यतः । पोट्टमस्याः स्फुटयित्वा, पततादेष भूतले ।२३।। तदेव च तथैवाभून्मृता व्यक्षरिका क्षणात् । महर्षिः श्लाघितो जैने, जयवादोऽभवन्मते ।२४।। श्रेष्ठिनो वैनयिकी । कुमारकथा योगसंग्रहे वक्ष्यते ।। पत्तनं पुष्पभद्राख्यं, पुष्पसेनो महीपतिः । देवी पुष्पवती तस्य, देवीव भुवमागता ।। तत्कुक्षिसंभवं राज्ञोऽपत्ययुग्मं च युग्मजम् । पुष्पचूलो राजपुत्रः, पुष्पचूला च पुत्रिका ।२। तदतिस्नेहलं युग्मं, वियोगं न सहिष्यते । मत्वेति भूभुजाऽन्योन्यं, तदैव परिणायितम् ।। आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी। पुष्पवती देवी। गाथा-९४९ ९५१ ५८७ 藥華藥業準準準準準準 XXXXX ५८७ [८३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy