SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ऊचेऽन्यं यः शिरोऽत्त्यस्य, राजा भवति स ध्रुवम् । जवन्यन्तरितोऽश्रौषीत्तत् कथञ्चन स द्विजः ।६। वज्रां सोऽवक्कुर्कुटोऽयं, हन्यतां खादनाय मे । सोचे किं पुत्रकल्पोऽयं, हन्यतेऽन्यं तवाऽऽनये ७। निर्बन्धे च कृते हत्वा, पक्वः स्नातुं द्विजो गतः । आययौ लेखशालायास्तावत्पुत्रो बुभुक्षितः ।। तस्याऽदात्कोर्कुटं शीर्ष, पश्चादाऽऽगाद् द्विजेब्रुवः । तन्मांसं भाजने तस्य, क्षिप्तं शीर्षमवीक्ष्य सः ।९। ऊचे शीर्ष क सोवाच, दत्तं सूनोश्चखाद सः । स रुष्टो घात्यते स्मैष, मया कान्ते ! शिरःकते ।१०। हत्वा तत्पुत्रमप्येतमस्य शीर्ष प्रयच्छ मे । मेने तदपि निर्बन्धाद्धिक कामविवशाः स्त्रियः ।११। धात्री तन्मन्त्रमाकर्ण्य, पुत्रमादाय तत्क्षणात् । पलाय्यान्यत्पुरं याता, सपुत्राऽस्थात् सरोऽन्तिके ।१२। तत्रापुत्रो मृतः माभृदश्वस्तैरधिवासितः । तस्थिवांस्तमुपेत्याऽसो, तत्राऽभूत्स सुतो नृपः ।१३। काष्ठः श्रेष्ठ्याययौ पश्चाद्, दृष्ट्वा स्वं वेश्म सर्वतः । शटितं पतितं भीष्मं, कान्तामूचे न साऽवदत् ।१४। पञ्जरान्मोचयित्वा स्वं, सर्वामाख्यत् कथां शुकः । विरक्तः स ततः श्रेष्ठी, तदेव व्रतमग्रहीत् ।१५। वज्राविप्रावपि गतो, तत्र यत्र सुतोऽस्ति राट् । काष्ठर्षिरपि तत्रैव, गतवान् विहरन्पुरे ।१६ । आ.नि. नमस्कारनियुक्तिः। वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः पारिणामिकी। काष्ठश्रेष्ठी। गाथा-९४९ ९५१ ५८६ [८२] ५८६ 養職紧紧紧職業紧器: .जवनी - जवनिका । * द्विजब्रुवः - अधमब्राह्मणः । ***
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy