________________
KXXX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ. नि.
८४
तेऽप्यवाम्याश्च वाम्याश्च तत्र जूर्णा नवा अपि । प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविताः ।।२।। अवाम्याः सुन्दरा नैते विपर्यस्तास्तु सुन्दराः । नवा वाप्यथवा जूर्णाः सुन्दरा येत्वभाविताः ।।३।। एवं शिष्या नवा जूर्णा अवाम्या जिनभाविताः । कुमतैर्भाविता वाम्याः सुन्दरास्ते न चेतरे ।।४।। अभावितास्तथा शिष्या द्विविधा अपि सुन्दराः । कुटाश्चतुर्विधा यद्वा खण्डकण्ठा अकण्ठकाः ।।५।। अधश्छिद्राश्च पूर्णाङ्गाः शिष्या अपि तथैव च । श्रुतं पानीयवत् खण्डे पार्श्वनैकेन गच्छति ।।६।। किञ्चिन्यूनमकण्ठे च छिद्रे गलति चाखिलम् । पूर्णो धरति निःशेष योग्यः स इह नापरे ।।७।। चालनीदृष्टान्त: - जलं गलति चालिन्यां क्षिप्यमाणमपि क्षणात् । यथा तथैव सूत्रार्थो यस्यासो चालनीसमः ।।१।। अथ परिपूणकोदाहरणं - परिपूणकेनाऽऽभीयों गालयन्ति घृतं किल । स च धत्ते कचवरं घृतमुज्झति निर्मलम् ।।१।।
एवं व्याख्यादौ यो दोषानादत्ते मुञ्चते गुणान् । अयोग्य एव शिष्यः स परिपूणकसत्रिभः ।।२।। *१. चालिन्या ख ल, ल, चालिन्याः प. प. । . परिपूणकः - घृतक्षीरगालनम्, सुगृहाभिधचटकाकुलायो (सुगृहाया नीडः) वा ।
सामायिकनियुक्तिः व्याख्यान
विधिः शिष्यपरीक्षायां दृष्टान्ताः । गाथा-१३९ ८४
KXXX
*****