________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८३
***********
**************
तच्छ्रुत्वा स्माह शैलोऽपि तीम्यते चेदनेन मे । तिलतुषत्रिभागोऽपि नामाऽपि न वहामि तत् ।।३।। तदुक्तं स घनस्याह रुष्टः सर्वादरेण सः । युगप्रमाणधाराभिः प्रारेभे वर्षितुं ततः । । ४ । ।
वृष्टिं विधाय सप्ताहं द्रुतं मत्वा तमस्थित । पानीयेऽपसृतेऽत्यन्तं स दीप्रः प्रोज्ज्वलोऽभवत् ।।५।। मेघं हास्याय जो लज्जितोऽगात् घनस्ततः । एवमेव भवेत्कोऽपि मुद्गशैलसमोऽन्तिषत् ।। ६ ।। आचार्यः पुष्करावर्त्तवद्गर्जन् कोऽप्यथागतः । शिष्यं महामूर्खमपि ग्राहयिष्याम्यहं श्रुतम् ।।७।। यतः - आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव कुतीर्थेनावतारिताः ।।८।। ततः पाठयितुं सोऽथारेभे तं नाऽशकत्परम् । ततोऽगाल्लज्जयाचार्यो नेदृशस्य प्रदीयते ।। ९ ।। तत्पाठनेऽपवादः स्यादाचार्यस्य श्रुतस्य च । सूत्रार्थहानिः सर्वेषां वन्ध्या पुष्टाप्यदुग्धदा ।।१०।। लुठत्यम्भो न कृष्णोर्व्यां द्रोणमेघेऽपि वर्षति । शक्ते ग्रहीतुं धर्तुं च शिष्ये दातव्यमीदृशे ।। ११ । । अथ कुटदृष्टान्तः -
कुटा द्विधा नवा जूर्णास्तेऽप्यभावितभाविताः । तत्रैकेऽगुरुपुष्पाद्यैरपरे लसुनादिभिः । । १ । ।
१. 'विज्ञाय तं स्थितः ' ल । २. 'तत्पाठने प्रवादः' ल ल ख छप, प • कुटाः = घटाः ।
*****
21/11/
आ. नि. सामायिकनिर्युक्तिः
व्याख्यानविधि: शिष्यपरीक्षायां
दृष्टान्ताः । गाथा१३९
८३