________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
यो न जानाति सूत्रार्थो चिरंपरिचितावपि । श्राद्धः प्रियामिव स्वां स योग्यः शिष्यो गुरुश्च न ।।१।। बधिरदृष्टान्तोऽपि प्राग्वत् । उपनयश्चायंयोऽन्यत्पृष्टोऽन्यदाचष्टे गुरुर्बधिरवन्न सः । न स शिष्योऽपि वा योऽन्यत् श्रुत्वाऽन्यदनुभाषते ।।२।। ग्राम्यगोहनिदर्शनमपि प्राग्वत् । उपसंहतिश्चेयं - अविमृष्टमसम्बद्धं यः स्थानानुचितं वचः । ब्रूते न स गुरुर्नो वा शिष्यो योग्यत्वभाजनम् ।।३।। *टङ्कणव्यवहारोदाहरणं - इहोत्तरापथे म्लेच्छाष्टङ्कणा दक्षिणापथात् । गृह्णन्त्यायातवस्तूनि मिथो भाषां न जानते ।। तत एके पण्यपुञ्ज मुञ्चन्त्यन्ये च काञ्चनम् । इच्छापूर्ती च गृह्णन्ति न गृह्णन्त्यन्यथा पुनः ।२। एषामिष्टः प्रतीष्टश्च व्यवहारो यथा तथा । योग्यः पृष्टोऽन्तिषद्वाधं यावदुत्तरदो गुरुः ।। इह गवादिदृष्टान्तेषु आद्यपक्षादपरः प्रतिपक्षः । स चाचार्यशिष्ययोयोजित एव ।।१३६ ।। पुनर्विशेषतः शिष्यदोषगुणानाह -
आ. नि. सामायिकनियुक्तिः व्याख्यानविधिः दृष्टान्ताः ।
गाथा-१३६
८१
. वचनाननुयोगे ग्रामेयकदृष्टान्तवत् (गाथा १३३) * टङ्कणः - म्लेच्छः । + टङ्कणनामानो म्लेच्छाः ।