________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८०
तिलकं भूमिभामिन्या वसन्तपुरपत्तनम् । मुक्तामयं स्फुरवृत्तं सद्गुणाधारबन्धुरम् ।।१।। जूर्णश्रेष्ठितनूजाया नवश्रेष्ठितनूजया । प्रीतिरास्ते बहिरमन्तश्च स्वतिरस्कृतेः ।।२।। अन्यदा ते गते मङ्गु नवश्रेष्ठिसुता ततः । सर्वाङ्गीणमलङ्कार तीरे मुक्त्वाविशनदीम् ।।३।। जूर्णश्रेष्ठिसुता सर्वं तश्चादाय पलायत । वारितापि गृहे गत्वा मातापित्रोद्यवेदयत् ।।४।। नवश्रेष्ठिसुता स्नात्वा गत्वा पित्रोरचीकथत् । तैर्मागितं न तेऽयच्छन्नस्माकमिति वादिनः ।।५।। वादो राजकुलेऽथाभूत्रास्ति साक्षी तयोस्ततः । नियुक्तैर्जूर्णसूरूचे चेत्तेऽदः परिधेहि तत् ।।६।। जूर्णश्रेष्ठिसुताऽथाऽज्ञा हस्ते यत्तत्पदेऽकरोत् । विज्ञातं तैरिदं नास्या अन्योचे त्वमलङ्करु ।।७।। साथ सर्वमलञ्चक्रे यथास्थानं सुरीतिकम् । मोचिता साऽमुचद् द्राक्तख़तमस्या इदं ततः ।।८।। आच्छिद्य तमलङ्कारं जूर्णश्रेष्ठी स दण्डितः । पुत्र्याश्चावर्णवादोऽभूद् द्वितीयाया पुनर्यशः ।।९।। व्यत्ययेनैवमाचार्यः कुर्वाणोऽर्थप्ररूपणाम् । दण्ड्यते भवदण्डेन श्रोतव्यं तस्य नान्तिके ।।१०।। यथास्थं यः पुनर्बते श्रोतव्यं तस्य पार्श्वतः । शिष्योऽप्येवंविधो योग्यः श्रुतदानाय नापरः ।।११।। ग्रन्था० १००० । श्रावकोदाहरणं प्राग्वत् । उपसंहारस्त्वयं
आ. नि. सामायिकनियुक्तिः व्याख्यान
विधिः
************
दृष्टान्ताः । गाथा-१३६
o