SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १RRX* आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७९ * . विष्णुर्जगाद योत्स्येऽहं हस्त्यश्वरथभाग्भव । दोर्युद्धाद्यैर्वा ढोकस्व स न्यषेधदिमा युधः ।।९।। ऊचेऽधिष्ठानयुद्धं नो स्यादुवाचाथ केशवः । निर्जितोऽहं हराश्वं मे युध्ये नाधमया युधा ।।१०।। ततो हृष्टः सुरोऽवादीद्वरं वृणु नरोत्तम ! । अशिवोपशमां भेरी देहीत्याह स्म केशवः ।।११।। तेन दत्ताथ सा षट्षण्मासान्ते वाद्यते पुरि । शब्दं शृणोति यस्तस्याः षण्मासावधि तस्य च ।।१२।। न भवन्ति नवा रोगाः शाम्यन्त्यग्रेतनाः पुनः । तत्रान्यदागादागन्तुरतिदाहज्वरातुरः ।।१३।। भेरीपालं बभाणैवं द्रव्यलक्षं गृहाण मे । गोशीर्षचन्दनपलमितो मे देहि सोऽप्यदात् ।।१४।। अन्यश्रीखण्डखण्डेन विबरं तमपूरयत् । एवमन्यान्यलोकस्य सा कन्थाऽकारि यच्छता ।।१५।। केशवेनाशिवेऽन्येधुदिता सेषदध्वनत् । या पुरा ध्वनयामास वादिता सकलां पुरीम् ।।१६।। विष्णुनालोकिता साथ दृष्टा कन्थीकृताऽखिला । स भेरीपालको लुब्धः कोशहारीव संहतः ।।१७।। आराध्याष्टमभक्तेन भेरी लेभेऽपरामरात् । अन्यस्तत्पालकश्चक्रे स तां रक्षन्नपूज्यत ।।१८।। एवं चन्दनकन्थावत् शिष्यः परमतादिभिः । कुर्याद्विमित्र्य सूत्रार्थो योग्यः स्यान श्रुताय सः ।।१९।। न कन्थीकृतसूत्रार्थो योग्यो भवति भाषितुम् । अविनाशितसूत्रार्थाः शिष्याचार्याः स्युरुत्तमाः ।।२०।। १. भेरी प. प. । आगन्तुः अतिथिः । आ. नि. सामायिकनियुक्तिः व्याख्यानविधिः दृष्टान्ताः । गाथा-१३६ %%%%%** *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy