SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७८ 準準準準準準準準準準準準準 एवं पृष्टो य आचार्यः प्रत्युक्तिं दातुमक्षमः । वक्ति श्रुतं मयाप्येवं शिष्याः ! शृणुत तत्तथा ।।४।। न तस्य पार्श्वे श्रोतव्यं मिथ्यात्वायार्थसंशयः । य: सर्वप्रश्ननिनेण्णेता श्रोतव्यं तत्सकाशतः ।।५।। दातुं योग्यः श्रुतं शिष्यो नाद्यगोक्रायकोपमः । द्वितीय इव गोक्रेता स्याद्योग्यः सुविचारकः ।।६।। अथ चन्दनकन्था - सौधर्मेन्द्रः सुधर्मायामासीनो दिविषत्पुरः । द्वारिकाधिपकृष्णस्य कुरुते गुणकीर्तनम् ।।१।। अहो पुंसामुत्तमानां गुणः कस्यापि नागुणान् । यदृहन्ति न युध्यन्तेऽधमयुद्धेन जातुचित् ।।२।। अश्रद्धानस्तत्रैकोऽभ्यागादसहनः सुरः । श्रीनेमि वासुदेवोऽपि व्रजन्नस्त्यभिवन्दितुम् ।।३।। अन्तरा मृतकं श्यामश्वानं सद्दन्तपङ्क्तिकम् । व्यधाद् दुर्गन्धं येनाभूल्लोकः सर्वो जुगुप्सकः ।।४।। बभाषे वीक्ष्य तं विष्णुरहो दन्ताः सिताः शुनः । दध्यो सुरस्तदाकर्ण्य गुणग्राही स्फुटं हरिः ।।५।। हत्वाऽश्वरत्नं कृष्णस्याऽश्वहारीवाथ सोऽगमत् । मन्दुरापालको ज्ञात्वा पूत्कृतं कृतवान्मुहुः ।।६।। ततो नृपाः कुमाराश्च यादवानां दधाविरे । हतविप्रहताः कृत्वा निर्धाट्यन्ते स्म तेन ते ।।७।। एत्य विष्णुस्तमूचेऽथ मा स्म मे रे ! हरिं हर । देवोऽवादीगृहाणाऽश्वं निर्जित्य समरेण माम् ।।८।। आ. नि. सामायिकनियुक्तिः व्याख्यानविधिः दृष्टान्ताः । गाथा१३६ k************* XXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy