SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ KK * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७६ * * अत्यद्भुतगुणश्रेणिः श्रेणिकस्तत्र भूपतिः । तत्पत्नी चिल्लणादेवी देवीव भुवमागता ।।२।। श्रीवीरजिनमानम्य माघमासे परेद्यवि । चिल्लणा सायमायान्ती शीते स्फीते प्रपातुके ।।३।। अनावृत्ताङ्गमद्राक्षीत् प्रतिमास्थं महामुनिम् । रात्रौ तस्याश्च सुप्तायाः पाणिरासीदनावृतः ।।४।। शीतातें चेतितं तत्र ततोऽन्तः स निवेशितः । *तस्य शेत्येन निःशेषं शीतार्त्तमभवद्वपुः ।।५।। पश्चात्तयोक्तं तादृग् स भविष्यत्यधुना कथम् । तच्छ्रुत्वा श्रेणिको दध्योऽसोऽस्याः साङ्केतिकः पुमान् ।।६।। प्रगे राज्ञाऽभयोऽभाणि ज्वालयान्तःपुरं द्रुतम् । स्वयं ययौ प्रभुं नन्तुं हस्तिवेश्माऽभयोऽदहत् ।।७।। श्रेणिकः प्रभुमप्राक्षीचिल्लणा सत्यसत्युत । स्वामिनोक्तं सती शीघ्रं ववले मा ज्वलीदिति ।।८।। आगच्छन्नभयः पृष्टो ज्वालितं ज्वालितं प्रभो! । तत्र त्वं प्राविशः किं न स प्रत्यूचे व्रतार्थ्यहम् ।।९।। प्रव्रजेति रुषा प्रोक्तः स गत्वा व्रतमग्रहीत् । श्रेणिको यावदग्रेऽगात् तावदन्तःपुरे शिवम् ।।१०।। चिल्लणायां श्रेणिकस्याननुयोगेतरौ तथा । एवमत्राऽपि याथात्म्यायाथात्म्यावेदनेन तो ।।११।। उक्तः सप्रतिपक्षोऽनुयोगः । नियोगोऽप्येवं वाच्यः ।।१३४।। *प्रागुक्तभाषादिस्वरूपमाह - कटे पत्थे 'चित्ते "सिरिघरए पोंड देसिए चेव । भासगविभासए वा वित्तीकरणे य आहरणा ।।१३५।। 'चितिण संवेदने' (१८२६ हैमधातुपाठे) । * तस्य - पाणेरित्यर्थः । + (१३१) गाथायामुक्तम् । आ. नि. सामायिकनियुक्तिः एकार्थिकानि अनु. दृष्टान्ताः । गाथा-१३५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy