________________
*******
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
७५
*
अज्ञातेऽननुयोगोऽभूत् ज्ञाते शम्बेऽनु चापरः । एवं भावस्य तो स्यातां प्ररूपणेऽन्यथा तथा ।।२४ ।। अथ षष्ठी। ऊचे जाम्बवती विष्णुं नाथ ! पुत्रस्य नो मया । आलिरालोकितैकाऽपि राजोचे दर्शयिष्यते ।।१।। आभीररूपौ प्रातस्तौ गृहीत्वा तक्रगोलिकाम् । द्वारवत्यामवातीर्णी तक्रविक्रयहेतवे ।।२।। आभीरीं वीक्ष्य शम्बेन प्रोक्ताभ्येहि मया सह । तमन्वेत्यथ सा तक्रं दातुमाभीरकस्तु ताम् ।।३।। प्रविश्यकं देवकुलमाभीरीं शम्ब ऊचिवान् । प्रविशात्र गृहीत्वा ते तक्रमूल्यं ददामि यत् ।।४।। सोचे नाहं प्रविशामि तवात्रस्थैव गोरसम् । दत्वा मूल्यं ग्रहीष्यामि शम्बस्तामित्यथाब्रवीत् ।।५।। प्रवेष्टव्यमिहावश्यं क्रष्टुं पाणिमवाहयत् । आभीरोऽताडयद् यष्ट्या शम्बं विद्वान् विनेयवत् ।।६।। आभीरो वासुदेवोऽभूजाम्बवत्यपरा तत: । दृष्ट्वा शम्बः पलायिष्ट त्रपया पिहिताननः ।।७।। आहूतः स द्वितीयेऽह्नि घटयन्नेति कीलकम् । जोत्कृतो हरिरप्राक्षीत्किमेतद्वत्स ! घट्यते ।।८।। ऊचे ह्यस्तनवा कृन्मुखे खोटाय कीलकः । प्रागिवोपनयः स्थाप्योऽनुयोगाननुयोगयोः ।।९।। इति शम्बसाहसकथा । अथ सप्तमी - अगाधं मगधेष्वस्ति श्रीराजगृहपत्तनम् । स्वर्ग वार्त्तममन्यन्त पथिकाः प्रेक्ष्य यत्कलाम्।।१।।
********
準準準準準準準準準準準準準準準準
आ. नि. सामायिकनियुक्तिः एकार्थिकानि अनु. दृष्टान्ताः। गाथा-१३४
७५