SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७४ **** अथागात्कमलामेलाप्रासादे नारदो मुनिः । पृष्टस्तयापि सन्मान्याश्चर्यं किञ्चिददृश्यत । ।१२ ।। ऊचे दृष्टमिहाश्चर्यद्वयमत्यन्तमद्भुतम् । रूपं सागरचन्द्रेऽस्ति नभः सेने विरूपिता ।। १३ ।। सारे मूर्च्छिता साऽथ नभः सेने व्यरज्यत । ऋषिराश्वास्य तामाख्यत्सागरस्यापि तन्मनः ।। १४ ।। इष्टः सर्वकुमाराणां स्वजनानां च सागरः । ततस्तदुःखतस्तत्र वाहेऽम्भांसीव तेऽमिलन् ।। १५ ।। शम्बश्च सागरं वीक्ष्य प्रलपन्तं ग्रहात्तवत् । स्थित्वास्य क्रीडया पश्चात् पाणिभ्यां पिदधे दृशौ । । १६ ।। सागरः स्माह कमलामेले ! ज्ञातासि मुच्यताम् । शम्बोऽवक्कमलामेला नाहं तन्मेलकः पुनः ।। १७ ।। अथोचे सागरस्त्वं स्वां प्रतिज्ञां तात ! पूरय । दध्यौ शम्बः स्ववाचैव मयेदं किमुरीकृतम् ।। १८ ।। प्रद्युम्नविद्यया तेऽथ भूत्वा खेचररूपिणः । गत्वोद्याने च शम्बाद्या विवाहाह्नि सुरङ्गया ।।१९।। आनीय कमलामेलां सागरं पर्यणाययत् । नभः सेनो विवोढुं ताम् तद्गृहद्वारि जग्मिवान् ।।२०।। तदा कन्यामदृष्ट्वा तां विलक्षस्तज्जनोऽभवत् । इतस्ततश्च पश्यद्भिर्दृष्टा खेलखगान्तिके ।। २१ । । खेचरान्यायमाकर्ण्य सर्वोघेण ययौ हरिः । युद्धेन विस्मयं नीत्वा विष्णुं शम्बः स्वरूपभाक् ।। २२ ।। पतित्वा पादयोः सर्वं वृत्तमाख्यद्यथातथम् । ददौ तां सागरस्यैव हरिरन्यानबोधयत् ।। २३ ।। खेलखगान्तिके खेचररूपिणामन्तिके । ****** आ. नि. सामायिक निर्युक्तिः एकाfर्थकानि अनु. दृष्टान्ताः । गाथा - १३४ ७४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy