SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ७३ ********** *************** अब्ध्यम्भः स्नेहे भूपात्रे वहत्पोतावलीदशे । या रुक्मैकमयीदीपशिखेवाभूत्तटेऽम्बुधेः ||२|| गृह्णातीवाम्बुधिस्तापं शीतवातार्त्तिकम्पनः । हसन्तीमिव मत्वा यां हैमीं केतूमिपाणिभिः । । ३ । । राजाधिराजस्तत्रासीदुपेन्द्रोऽपीन्द्रवद् भुवि । सदा नवं सुमनसां चित्रं मोदमदत्त यत् ॥४॥ ब्रूमः किमस्य कोदण्डं दण्डताण्डवनाद्भुतम् । यस्यैकोऽपि रणे बाणः कुरुते लक्षवेधनम् ।।५।। तत्र श्रीबलदेवस्य नप्ता निषधनन्दनः । नाम्ना सागरचन्द्रोऽभूद्रूपसौभाग्यभाग्यभूः ||६|| द्वारिकावासिनोऽन्यस्य नृपतेः कमलोपमा । दुहिता कमलामेला शतपत्रकृतस्थितिः ।।७।। सोग्रसेननृपापत्यनभः सेनस्य कल्पिता । नारदस्तगृहायातो नि:सन्मानो ययौ क्रुधा ।।८।। सागरेण पुनर्गेहमागतो नारदः स्वयम् । सन्मान्यासनमासीनः पृष्टश्चित्रं किमिक्षितम् ।।९।। सोऽवदत्कमलामेला दृष्टात्रैवातिचित्रकृत् । दत्ता कस्यापि सोऽपृच्छत्तद्योगः स्यात्कथञ्चन ।।१०।। ऋषिर्न वेद्यीत्युक्त्वाऽगात् सागरस्तु पुनः पुनः । आसने शयने पश्यल्लि[ल्लिं] खंस्तामेव वा स्थितः ।।११।। १. 'शीतवातार्तिकं पुनः ' ख ल । २. स्वीयोम्मि.... छ प । अध्यम्भःस्नेहे अब्धेः अम्भः अध्यम्भः तदेव स्नेहो यस्मिन् तद् अध्यम्भः स्नेहम्, तस्मिन् । भूपात्रे भूः एव पात्रम्: भूपात्रम्, तस्मिन् । वहत्पोतावलीदशे- वहताम् पोतानाम् आवली - वहत्पोतावली, सा एव दशा यस्मिन् तद् वहत्पोतावलीदशम्, तस्मिन् । * यदा केतूमि... इति पाठस्तदा तस्यान्वयो हसन्तीमिवेत्यनेन कार्यः । यदा स्वीयोम्मिं... इति पाठस्तदा गृह्णातीवेत्यनेनान्वयः । ******** आ. नि. सामायिक निर्युक्तिः एकार्थिकानि अनु. दृष्टान्ताः । गाथा - १३४ ७३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy