SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः रक्ष्यमारेऽननुयोगोऽनुयोगो रक्ष्यरक्षणे । स्यातामेतावुपनयेऽसम्यक्सम्यक्प्ररूपणे ।।५।। अथ चतुर्थी । एका चारभटी जज्ञे गर्भिणी नकुली तथा । एकस्यामेव रात्री च ते सुवाते समं सुतौ ।।१।। दध्यो चारभटी मेऽर्भखेलकोऽसौ भविष्यति । तस्यापि बृंहणं क्षीरं पुत्रस्येव ददौ सदा ।।२।। चारभट्याः खण्डयन्त्याः सुतोऽन्तर्मञ्चिका गतः । सर्पणारुह्य सन्दष्टः प्रापदेकोऽपि पञ्चताम् ।।३।। उत्तरन्तं मञ्चिकायाः प्रेक्ष्यारातिमिवोरगम् । नकुलः खण्डशश्चक्रे वालुकमिव तत्क्षणात् ।।४।। ततस्तद्रक्तरक्तास्यस्तदैवागत्य संनिधौ । स्वमातुरिव तन्मातुश्चाटूनि कुरुते स्म सः ।।५।। तया ज्ञातं ममैतेन भक्षितस्तनयोऽन्यथा । अस्यास्यं कथमीदृक् तन्मारितो मुशलेन सः ।।६।। पुत्रमूलं गता साऽथ सर्पदष्टं विलोक्य तम् । नकुलप्रहतं चाहि विषण्णा दुःकृष्कृितानिजात् ।।७।। चारभट्याः पुरा तस्या नानुयोगोऽनु चेतरः । स्यातामेतावुपनयेऽसम्यक्सम्यक्प्ररूपणे ।।८।। अथ पञ्चमी कथा । पुरी द्वारवतीत्यासीद्यस्यां लक्ष्मी: सदाऽवसत् । समग्रभुवनाभोगभ्रमश्रमवशादिव ।।१।। आ.नि. सामायिकनियुक्तिः एकार्थिकानि अनु. दृष्टान्ताः । गाथा-१३४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy