________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
K*******
ख्यात्वा धर्म सोऽशक्तोऽप्यकार्यतैकमभिग्रहम् । जीवं सप्तपदीं पश्चाददत्वा मा वधीरिति ।।९।। ययो चौर्याय सोऽन्येधुर्वलितोऽशकुनैः परम् । शनैर्निश्यविशद्रं तद्दिने चाययो स्वसा ।।१०।। तदा च कृत'वेषा सा समं भातृजायया । प्रेक्षां वीक्ष्यागता निद्राक्रान्तैकशयनेऽस्वपीत् ।।११।। स पुमान् वीक्ष्य तत्तादृक् कोपकम्प्ररदच्छदः । 'जार'इत्यसिना हन्ति यावत्तावद् व्रतं स्मृतम् ।।१२।। स्थितः सप्तपदीं पश्चादन्तरेऽत्र स्वसाऽवदत् । हला मे बाधते बाहुः पीलितो मौलिना तव ।।१३।। स्वसारं स स्वरात् ज्ञात्वा दध्यौ चेन्मुनयो न मे । अभिग्रहमदास्य॑स्तदकरिष्ये वधं स्त्रियोः ।।१४।। तत्प्रबन्धात्प्रबुद्धोऽसौ शुद्धधीतमग्रहीत् । अज्ञातेऽननुयोगोऽस्य ज्ञातेऽभूदितरः पुनः ।।१५।। उपनयः प्राग्वत् । अथ तृतीया कथा - एक: कोङ्कणदेशेऽभूद्दारको मृतमातृकः । पिताऽस्याप्नोति नोद्वोढुं सपुत्र इति कन्यकाम् ।।१।। सपुत्रः स गतोऽरण्ये काष्ठान्यानेतुमन्यदा । दध्यौ च मारयाम्येनं येनोद्वोढुं लभेऽबलाम् ।।२।। प्रक्षिप्यकं ततो बाणं तमानेतुं तमादिशत् । गच्छन्त्रपरबाणेन सूनुर्विद्धः स वेध्यवत् ।।३।।
किं मारयसि मां तातेत्यशृण्वन्निव तद्वचः । बाणं पुनरनुक्षिप्यारटन्तं तममारयत् ।।४।। *१. 'तां तादृक्' प छ ।
आ. नि. सामायिकनियुक्तिः
एकार्थिकानि * अनु. दृष्टान्ताः ।
गाथा-१३४
७१
KKKK