SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७० द्वितीयदिवसेऽकार्षीदधृति श्रावकः स तु । विषयावेशवश्येन हा मया खण्डितं व्रतम् ।।४।। नाभूत्ते खण्डना साभिज्ञानं पल्यैव बोधितः । सखीधिया प्रियाभोगोऽननुयोगोऽनु चापरः ।।५।। एवं स्वसमयं योऽन्यसमयोऽयमिति ब्रुवे[यात् । अननुयोगस्तस्य स्यात्सम्यगावेदनेऽपरः ।।६।। अथ द्वितीया कथा । प्रान्तग्रामे क्वचित्कश्चिदेकोऽवलगकः पुमान् । साधुविप्रादिवाचं न शृणोत्याश्रयते न वा ।।१।। उपाश्रयं न वा दत्ते मा गाद् धर्मः श्रुतौ मम । माहं दयापरोऽभूवमितीदृग् विश्रुतो जने ।।२।। आजग्मुः साधवस्तत्रऽन्यदाऽयाचनुपाश्रयम् । गोष्ठीजनैः प्रपञ्चार्थ स एवाश्रयदोऽकथि ।।३।। कथितानि च तद्नेहाभिज्ञानान्यथ ते ययुः । दृष्ट्वाश्रयार्थ श्रमणै!चे पृष्टोऽप्यनादरः ।।४।। अथोचे साधुनैकेनाऽसौ चेन स भविष्यति । तेर्वयं वञ्चिता वा स्युः श्रुत्वा तत्पृच्छति स्म सः ।।५।। साधवोऽप्यखिलं तस्य यथातथमचीकथत् । अहो अकार्यमेतेषां साधवो यतापञ्चिताः ।।६।। प्रपञ्चयन्तु मामेते इति ध्यात्वा स चेतसि । उपाश्रयं ददौ तेषामूचिवांश्च यथा मम ।।७।। धर्मः कदापि नाख्येय ओमित्यूचुश्च साधवः । वर्षाराने गते यातुं प्रश्नयद्भिस्तपोधनः ।।८।। *१. संभविष्यति । ********************* आ. नि. सामायिकनियुक्तिः एकार्थिकानि * अनु. दृष्टान्ताः। गाथा-१३४ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy