SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः सेवमानस्तमन्येार्दुभिक्षे परिषद्गतम् । तत्कान्ताऽऽहातुं तं प्रेषीत् राद्धाम्लखलिकेति सा ।।१८।। स तत्र गत्वाऽवादीत्तं शीतला जायतेऽम्लिका । लजितः स गृहायातस्तमूचे कार्यमीदृशम् ।।१९।। गुप्तं निवेद्यते कर्णे दीप्तं तद्गृहमन्यदा । शनैः सोऽकथयद्यावत्तावनज्वाल तद्गृहम् ।।२०।। सरोषमथ तेनोक्ते ईदृश्यर्थे सपद्यपि । विधाप्यतेऽग्निः पानीयाचाम्लदुग्धादिभिः स्वयम् ।।२१।। अन्यदा घौतवस्त्राणि तस्य घूपायत: प्रभोः । दृष्ट्वा धूमशिखां तस्य गोमूत्रं मूर्धनि न्यधात् ।।२२।। वचनाननुयोग: स्यादेवमन्यान्यभाषणे । तस्य ग्रामेयकस्येवानुयोग: सम्यगुक्तित: ।।२३।। ।।१३३।। भावविषयेऽननुयोगानुयोगयोः सप्तदृष्टान्ताः । ते चामी - सावयभजा सत्तवइए य कुंकणयदारए नउले । कमलामेला संबस्स साहस्सं सेणिए कोवो ।।१३४।। श्रावकः कोऽपि कुत्रापि स्वभार्यायाः प्रियां सखीम् । स्फारशृङ्गारसाराङ्गीं दृष्ट्वासीदनुरागवान् ।।१।। कृशीभवंस्ततः पन्या पृष्टेऽकथयदाग्रहात् । तयोक्तं तामुपानेष्ये मा कार्षीरति प्रिय ! ।।२।। तदीय वस्त्राभरणैः सखीवेषवती निशि । तत्प्रियैवाययो सोऽपि भेजे तां तत्सखीमिति ।।३।। आ. नि. सामायिकनियुक्तिः एकार्थिकानि अनु. दृष्टान्ताः । गाथा-१३४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy