SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः K ६८ मृगेभ्यः स्वमपहृत्य स्थितानध्वनि लुब्धकान् । नगरं प्रस्थितो दृष्ट्वा जोशकार गुरुस्वरम् ।।६।। ततः शब्दान्मृगा नेशुस्तैर्गृहीत्वा स कुट्टितः । सद्भावे कथिते प्रोक्तः प्रेक्षसे त्वं यदेदृशान् ।।७।। तदा गम्यं शनैनीचैनिलीनेनाप्रभाषिणा । तेनाग्रे रजका दृष्टा गोपिताङ्गा नतावनी ।।८।। धोतोद्गमितवस्त्राणि स्तेनास्तेषां हरन्ति च । रक्षन्तः स्थानबन्धेन न्यग्भूताः सन्ति ते ततः ।।९।। अथ प्राक्तनशिक्षितः शनैर्नीचैः स सञ्चरन् । ततस्तैः स्तेनबुध्याऽसौ धृत्वाऽकुट्यत वस्त्रवत् ।।१०।। सद्भावोक्तौ स तैरूचे वदेः शुद्धं भवत्विति । एकत्र बीजवपने शुद्धमस्त्विति जल्पिते ।।११।। कुट्टितस्तैरपि प्राग्वन्मुक्त: सद्भावशंसने । भणितश्च वदेरेवं दृष्ट्वेदं वोऽस्तु बह्विति ।।१२।। वीक्ष्याने शवमायान्तं बहीदृग् वोऽस्तु सोऽभ्यधात् । हतस्तैरपि सद्भावाऽऽवेदनेऽमोच्यवाचि च ।।१३।। वाच्यं मेलकमालोक्य वियोगोऽस्तु सदेदृशा । दृष्ट्वाऽन्यत्र विवाहं वो वियोगोऽस्त्विति सोऽवदत् ।।१४।। ततस्तत्रापि सद्भावाख्याने प्रोक्त इदं वदेः । सर्वदैवेदृशाः सन्तु शाश्वतं वो भवत्वदः ।।१५।। दृष्ट्वाऽन्यत्र निगडितान् पूर्वादिष्टं स शिष्टवान् । उक्तस्तैरपि हत्वा द्राक् मोक्षो वः स्यादिति ब्रूवे: [याः ।।१६।। अन्यत्र मैत्र्यघटनं दृष्ट्वा प्राक् शिष्टमुक्तवान् । कृत्वा तैः प्राग्विधिमुक्त एकं ग्रामण्यमाश्रयत् ।।१७।। *१. 'ध्रुवैः प. प. ल ल ख छ। आ. नि. सामायिकनियुक्तिः एकाथिकानि अनुयोगाननुयोगे दृष्टान्ताः । गाथा-१३३ ६८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy