________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
६७
************
स हलं खेटयन् पुत्रः पान्यैः पृष्टोऽन्यदा पथम् । उवाच गृहजातौ मे बलीवर्दाविमौ ननु ॥ २ ॥ क्षेत्रे भक्तं तदानीतं भार्यया तस्य तत्कृते । शृङ्गितो मे बलीवद्द स तस्या इत्यचीकथत् ।।३।। सोचे क्षारमथाक्षारं मात्रा राद्धमिदं तव । तया चाकथ्यत श्वश्र्वाः कर्तयन्त्याः प्रियोदितम् ॥४॥ •
स्थूलं वा छरडं वास्तु सूत्रं पोतोऽमुना कृतः । भविष्यति स्थविरस्य, श्वश्रूस्तामेवमभ्यधात् ।।५।। स्थविरी स्थविरस्याख्यद् वधूक्तमथ सोऽभ्यधात् । तुभ्यं शपे तिलान् रक्षस्तिलं नाद्ययेकमप्यहम् ।।६।। एवमन्यान्यकथने तेषां वचनाननुयोगः यथोक्तकथने त्वनुयोगः स्यात् ।
अथ द्वितीयदृष्टान्तमाह
एकस्मान्नगरादेका कापि स्त्री मृतभर्तृका । ग्रामे क्वाप्यऽवसत्सार्भा सुप्रापैधोदकार्थिनी । । १ । । दारको वर्धमानः स मातरं पृष्टवानिदम् । क्व मे पिता ? मृतः का वा जीविकाऽभूत्पितुर्मम ? ।।२।। जनन्यूचेऽवलगनाऽहमप्यवलगामि तत् । साऽवदत्त्वं न जानासि कथमप्यवलग्यते ॥ ३ ॥
सुतोऽवक् तर्हि मां मातः ! शाधि साप्यशिषत् ततः । विदध्या विनयं पुत्र ! विनयः कीदृशोऽम्ब ! सः ।।४ ॥ क्रियते वत्स ! जोत्कारो नीचैश्च क्रम्यते तथा । छन्दानुवर्त्तिभिर्भाव्यमिति शिक्षां प्रगृह्य सः ।।५।। • कर्कशार्थोऽयं शब्दो देश्यो भाति ।
****************
आ. नि.
सामायिक
निर्युक्तिः
एकार्थिकानि अनुयोगाननुयोगे
दृष्टान्ताः ।
गाथा - १३३ ६७