SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ६६ गतानुगतिकत्वेन चेले तद्वीक्ष्य सैनिकैः । यास्याम्येको रजोभीरुरित्यचालीनृपो निशि ।।९।। स्कन्धावार पुनस्तावद् यान्तं वीक्ष्येत्यचिन्तयत् । यानमेतैः कथं ज्ञातं नाख्यातं कस्यचिन्मया ।।१०।। ज्ञातं परंपराप्रश्नात्कुब्जाऽऽख्यदिति भूभुजा । सा पृष्टाख्यद्यथाज्ञातं तुष्टस्तस्यै नृपस्ततः ।।११।। आख्यान्त्याः क्षेत्रमेतन्न परिभोग्यं प्रभोरिति । कुब्जिकाया अनुयोगोऽननुयोगोऽन्यथा पुनः ।।१२।। एकान्तनित्यमाकाशमप्रदेशं तथैककम् । ब्रुवतोऽननुयोग: स्यादनुयोगोऽन्यथा पुनः ।।१३।। गुणयन् रभसाद्रात्रौ साधुः कालं विवेद न । तद् बोधायाथ सम्यग्दृग् तर्क तक्रमिति ध्वनिम् ।।१।। कृत्वा तक्रघटं मौलौ देवताऽघोषयन्मुहुः । तक्रविक्रयवेलेयं तामूचे साधुरीjया ।।२।। यथा स्वाध्यायवेला ते प्रत्युवाचेति साऽपि तम् । उपयुज्य ततः साधुमिथ्यादुःकृष्कृतमूचिवान् ।।३।। देवता त्वशिषज्जातु मैवं कार्षी: पुनर्मुने! । मिथ्याग्देवता मा त्वां कदाचिच्छलयेदिति ।।४।। अकालेऽननुयोगोऽयं यत्स्वाध्यायविधिर्मुनेः । काले चाध्ययनं यत्तु सोऽनुयोग: पुनर्भवेत् ।५।। इदानीं वचनविषय: प्रथमदृष्टान्त: - ग्रामे निवसति क्वापि बधिराणां कुटुम्बकम् । स्थविरः स्थविरी चैका तयोः पुत्रः स्नुषा तथा ।।१।। *१. मुनेमिथ्यादृग् प । 準準举举準準準準準準準準準準準準準準準準準準 आ. नि. सामायिकनियुक्तिः अनुयोगाननु * योगे दृष्टान्ताः । * गाथा-१३३ E半準準準準準準準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy