SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ******* आवश्यक निर्युक्तिः ‘गत्यानुपूर्व्यो द्वे द्वे,' `नरकगतिर्नरकानुपूर्वी तिर्यग्गतिस्तिर्यगानुपूर्वी च जातिनाम च 'यावञ्चतुरिन्द्रियनाम' एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिनामानि । आतपं उद्योतं स्थावराः पृथिव्यादयस्तन्नाम । सूक्ष्मं च सूक्ष्मनाम । साधारणं अनन्तवनस्पतिनामेत्यर्थः । अपर्याप्तं श्रीतिलका- निद्रानिद्रां प्रचलाप्रचलां स्त्यानद्धिं ततो यदष्टानामवशेषं तत् क्षपयति । ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुंवेदं चार्यलघुवृत्तिः स्त्रीनपुंसकौ तु प्राग्वत् वेदान् क्षपयतः । ततः सञ्ज्वलनान् क्रोधादीन् क्रमेण क्षपयति । लोभखण्डानि चोपशमश्रेणिवत् । अन्तर्मुहूर्त्तेन क्षपकश्रेणिः समाप्यते ।।१२२ - १२३ ।। स च क्षपकोऽब्धितरणश्रान्तवन्मोहाब्धिमुत्तीर्य विश्राम्यतीत्याह - ६१ वीसमिऊण नियंठो दोहिं समएहिं केवले सेसे । पढमे निद्दं पयलं नामस्स इमाउ पयडीओ । । १२४ ।। देवगइआणुपुव्वीविडव्विसंघयणपढमवज्जाई । अन्नयरं संठाणं तित्थयराहारनामं च ।। १२५ ।। ************* आ. नि. * सामायिकनिर्युक्तिः क्षपकश्रेणिः । गाथा विश्रम्य क्षणं निर्ग्रन्थः, द्वाभ्यां समयाभ्यां 'केवले' केवलज्ञाने शेषे, समयद्वयानन्तरं केवलज्ञाने उत्पत्स्यमाने, तयोर्द्वयोः प्रथमे समये निद्रां प्रचलां नाम्नः प्रकृतीरिमाः देवगतिदेवानुपूर्वीवैक्रियनाम प्रथमवर्णानि संहनानि, अन्यतरत् यदात्मनोऽस्ति संस्थानं तदेकतरं मुक्त्वा शेषाणि १२४-१२५ संस्थानानि, तीर्थङ्करनाम आहारकनाम च क्षपयति यद्यतीर्थङ्करः कर्त्ता । तीर्थङ्करश्चेत्क्षपकः, तत आहारकनाम च क्षपयति न तीर्थङ्करनाम ।।१२४ - १२५ ।। द्वितीयसमये तु किमित्याह - १. नरकगतिनरकानुपूर्वी प, नरकगतिनारकानुपूर्वी ल, ल छ ख प । इतस्तिस्रो गाथा मलयगिरिवृत्तावन्यकर्तृका दर्शिताः । ******* ६१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy