________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
५८
******
षण्मासान् तपो भवति । पुनः षण्मासान् 'पारिहारिकाः अनुपरिहारिकाः, अनुपारिहारिकाश्च पारिहारिका भूत्वा पूर्ववत् तपस्यन्ति । पुनरपि षण्मासान् वाचनाचार्यः परिहारिको भवति । एकश्च वाचनाचार्यत्वम्, सप्त चानुपारिहारिकत्वं कुर्वन्ति । अष्टादशमासान्ते पूर्णतपसो जिनकल्पं गच्छं वा प्रपद्यन्ते । इदं च तीर्थङ्करपार्श्वे प्रारब्धव्यम्, तीर्थङ्करसमीपानुष्ठितैतत्तपसो वा साधोः पार्श्वे । तथा सूक्ष्मसम्परायं सम्पर्येत्येभिः संसारमिति सम्परायाः कषायाः, ते सूक्ष्मलोभाणुरूपा यत्र तत् । तच्च विशुध्यमानकं सङ्क्लिश्यमानकं च । तच्चाद्यं क्षपकोपशमश्रेणिद्वयमारोहतः । द्वितीयमुपशमश्रेणेः पततः । यथाख्यातं चारित्रमकषायं तच्चान्त्यगुणस्थानकचतुष्टये भवति ।।११४- ११५ ।। सूक्ष्मसम्परायं श्रेणिद्वये स्यादित्युक्तम् । तत्रोपशमश्रेणिमाह -
अणदंसनपुंसित्थी वेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ।। ११६ ।। इहाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतमः प्रारम्भकः । तत्र 'अणत्ति' सूचकत्वात्सूत्रस्य भीमो भीमसेनवत्, अणः अनन्तानुबन्धिनः कषायाः तानुपशमश्रेणिमारोहन् प्रथममुपशमयति । ततो दर्शनं मिथ्यात्वमिश्रसम्यक्त्वरूपं युगपत् । ततोऽनुदीर्णमपि नपुंसकवेदम्, तदनु पुरुषः प्रारम्भकः स्त्रीवेदम्, ततो हास्यरत्यरतिभयशोकजुगुप्साषट्कम्, ततः पुरुषवेदम्, स्त्री चेत्प्रारम्भिका प्रथमं नपुंसकवेदम्, पश्चात् पुरुषवेदम्, ततः षट्कम्, ततः स्त्रीवेदम् । अथ नपुंसकः प्रारम्भकः प्रथमं स्त्रीवेदम्, पश्चात्पुरुषवेदम्, ततः षट्कम्, १. परिहारिकाः ल । २. अनुपरिहारिकाश्च प ल ख ३ पारिहारिको छ प ल ल ।
आ. नि.
सामायिकनिर्युक्तिः
उपशमश्रेणिः ।
गाथा - ११६
५८