________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
ގ
*****
सम्यक्त्वादिलाभावरणरूपान् कषायानाह -
पढल्लियाण उदये नियमा संजोयणाकसायाणं । सम्मदंसणलंभं भवसिद्धीयावि न लहंति । । १०८ ।।
'प्रथमकानां' अनन्तानुबन्धिनाम्, 'संयोजनाकषायाणां' - संसारेण सह संयोजयन्तीति संयोजनास्ते च ते कषायाश्च संयोजनाकषायास्तेषां उदये 'नियमा' नियमेन सम्यग्दर्शनलाभं भवसिद्धिका अपि तद्भवसिद्धिगामिनोऽपि न लभन्ते । १०८ ।।
बियकसायाद अपचक्खाणनामधिज्जाणं । सम्मद्दंसणलंभं विरयाविरइं न उ लभंति । । १०९ ।।
द्वितीयकषायाणां अप्रत्याख्याननामधेयानां देशविरतिप्रत्याख्याननिषेधकानां उदये सति विरताविरतिं देशविरतिप्रत्याख्यानं न लभन्ते तुशब्दस्य विशेषणार्थत्वात् सम्यग्दर्शनलाभं पुनर्लभन्त एव । । १०९ ।।
तेइयकसायाणुदर पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरइं चरित्तलंभं न उ भंति ।। ११० ।। तृतीयकषायाणां प्रत्याख्यानावरणनामधेयानां सर्वविरतिप्रत्याख्याननिषेधकानां उदये चारित्रलाभं न लभन्ते । देशैकदेशविरतिं पुनर्लभन्ते । देशविरतिः स्थूलप्राणातिपातविरतिस्तस्या एकदेशोऽनन्तकायाद्यतिपातविरतिस्तां लभन्त एवेति । । ११० ।। इदानीममुमर्थमुपसंहरन्नाह
१. 'तईय' ख ल प प,
-
आ. नि. सामायिक
निर्युक्तिः सम्यक्त्वादिनिषे
* धककषायाः ।
गाथा१०८-११०
****:
५५