SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ M आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ५४ ग्रन्थिश्च कर्कशो रूढः काष्ठग्रन्थिरिवाभिदः । रागद्वेषपरिणामरूपो जीवस्य कर्मजः ।।७।। अपूर्वकरणास्त्रेण भित्वा ग्रन्थिं तयोर्जयात् । प्रापुः केचन सम्यक्त्वं करणेनानिवर्तिना ।।८।। पथभ्रष्टो यथा पान्थः पन्थानमुपदेशतः । कश्चिद्वेत्ति स्वयं कोऽपि वेत्ति कश्चिन्न वेत्ति च ।।१।। जीवोऽप्येवं भवारण्ये गतः सोऽप्यविदन् पथम् । सम्यग्मार्ग निसर्गेण गुरोर्वाप्नोति कोऽपि न ।२। यथाज्वरगृहीतानां केषाञ्चिद्याति स स्वयम् । केषाञ्चिदोषधैर्याति केषाञ्चिद्याति न ज्वरः ।।१।। एवं जीवस्य मिथ्यात्वज्वरः कस्यचन स्वयम् । गुरूपदेशभैषज्यादपगच्छति कस्यचित् ।।२।। अपैति कस्यचिन्नैव यस्य चापगतः पुनः । स मिथ्यात्वज्वरस्तस्य सम्यक्त्वं भवति ध्रुवम् ।।३।। कोद्रवाणां च केषाञ्चिद्यथा मदनरूपता । स्वयं यात्यपरेषां तु गोमयादेन केषुचित् ।।१।। मिथ्याभावोऽपि केषाञ्चिज्जीवानां याति स स्वयम् । केषाञ्चन पुनः साधूपदेशपरिकर्मत: ।।२।। मिथ्यादृशामभव्यानां केषाञ्चिन्न व्यपैति सः । गतः पुनः स येषां तु तेषां सम्यक्त्वसम्भवः ।।३।। मलिनार्धशुद्धशुद्धभेदात्त्रेधाम्बुवाससी । यथा तथैव मिथ्यात्वमिश्रसम्यक्त्वदर्शनम् ।।१।। ततोऽशुद्धार्धशुद्धे ते स्यातां शुद्धे विशोधनात् । मिश्रं सद्दर्शनं स्यादनिवर्तिकरणात्तथा ।।२।। ।।१०७।। KXXXXXKAKKKA आ. नि. सामायिकनियुक्तिः सामायिक लाभे दृष्टान्ताः । गाथा-१०७ ५४ ******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy