________________
आवश्यक- पल्ये कश्चन धान्यानि स्तोकस्तोकानि निक्षिपेत् । प्राज्यप्राज्यानि चाकर्षेत् क्षीयते च क्रमेण सः ।।१।। नियुक्तिः
जीवोऽप्येवं कर्मपल्ये मिथ्यादर्शनपुद्गलान् । विनिक्षिपन् समाकर्षन् परिणामविशेषतः ।।२।। श्रीतिलका- अनाभोगेन क्षीणोपशान्तमिथ्यात्वपुद्गलः । भवितव्यतया भव्यः सम्यक्त्वं लभते खलु ।।३।। चार्यलघुवृत्तिः *
गिरिनधुपलाः प्रायः सङ्घर्षेण परस्परम् । वृत्तत्र्यस्त्रादिरूपत्वं प्राप्नुवन्त्यात्मनेव हि ।।१।। ५३
यथाप्रवृत्त्या जीवोऽपि मिथ्यात्वाणुप्रघर्षणात् । आसादयति सम्यक्त्वं कथञ्चन कदाचन ।।२।। वात्या इव भ्रमन्त्योऽत्र सर्वतोऽपि पिपीलिकाः । प्राप्नुवन्ति यथा क्वापि विशिष्टं भक्ष्यमात्मनः ।।१।। एवं जीवोऽपि कुर्वाण: कर्मापचयसञ्चयो । प्राप्नोति जातु सम्यक्त्वं ध्यानावर्त्तविशेषतः ।।२।। ग्रामाद् ग्रामान्तरं कोऽपि प्रस्थिताः पुरुषास्त्रयः । प्राप्ताः क्रमेण कान्तारं दुरुत्तारं समुद्रवत् ।।१।। चौरावाकृष्टनिस्विंशो कालपाशाविवाभितः । तथायान्तौ पुरो दृष्ट्वाऽवलदेको गलद्वलः ।२। द्वितीयस्तु तयोर्बाहुपाशे मृग इवापतत् । अभीष्टं प्रययौ स्थानं तृतीयस्त्वपहस्त्य तौ ।।३।। एवं संसारकान्तारे भ्रमन्तो जन्तवः किल । रागद्वेषौ महारौद्रौ ददृशुर्दग्विषाहिवत् ।।४।। कोटाकोटीसागरान्तः कृत्वा कर्माष्टकस्थितिम् । यथाप्रवृत्तिकरणाद् ग्रन्थिदेशमुपागताः ।।५।।
भीत्या ववलिरे केचित्ततो भग्ना रणादिव । अपरे तु तथाग्रन्थौ ययुर्ग्रन्थिकसत्त्वताम् ।।६।। *१. 'तयोर्ग्रन्थो' ल, ख प, ल, 'यथाग्रन्थो' प ।
課樂課業準準準準準準詳謙謙謙謙举梁梁举举華華華華譯詳梁謙
आ. नि. सामायिक - * नियुक्तिः * सामायिक
लाभे दृष्टान्ताः । गाथा-१०७
|華華華華華華華華举準準準